________________
सूर्यमज्ञतिवृत्तिः (मल०)
१प्राभृते ३ प्राभृतप्राभृतं
॥२३॥
व्यक्तीकरोति-'जाई सूरिए परस्स चिण्णाई पडिचरई' यानि सूर्यो भारतः 'परस्स चिन्नाई'इत्यत्र षष्ठी तृतीयार्थे परेणऐरावतेन सूर्येण निष्क्रमणकाले चीर्णानि प्रतिचरति, दक्षिणपश्चिमे च मण्डलचतुर्भागे एकनवतिं-एकनवतिसङ्ख्यानि ऐरावतस्य सूर्यस्येत्यत्रापि सम्बध्यते, ततोऽयमर्थः-ऐरावतस्य सूर्यस्य सम्बन्धीनि सूर्यमतानि, किमुक्तं भवति ?-ऐरावतेन सूर्येण पूर्व निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेवाह-'जाई सूरिए परस्स चिण्णाई पडियरह'एतत्पू
ववद् व्याख्येयं, अत्राप्येकस्मिन् विभागे द्विनवतिरेकस्मिन् भागे एकनवतिरित्यत्र भावना प्रागिव भावनीया, तदेवं भारतः है सूर्यो दक्षिणपूर्वे द्विनवतिसङ्ख्यानि उत्तरपश्चिमे एकनवतिसङ्ख्यानि स्वयं चीर्णानि उत्तरपूर्वे द्विनवतिसङ्ख्यानि दक्षिणपश्चिमे एकनवतिसङ्ख्यान्यैरावतसूर्यचीर्णानि प्रतिचरतीत्युपपादितं, सम्प्रति ऐरावतः सूर्य उत्तरपश्चिमदिग्भागे द्विनवतिसयानि मण्डलानि दक्षिणपूर्वे एकनवतिसङ्ग्यानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनवतिसङ्ख्यान्युत्तरपूर्वे एकनवतिसङ्ग्यानि भारतसूर्यचीर्णानि प्रतिचरतीत्येतत्प्रतिपादयति-तत्थ अयं एरवए सूरिए'इत्यादि, एतच्च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं व्याख्येयं । सम्प्रत्युपसंहारमाह-'ता निक्खममाणा खलु'इत्यादि, अस्यायं भावार्थ:-इह भारतः सूर्योऽभ्यन्तरं प्रविशन् प्रतिमण्डलं द्वौ चतुर्भागौ स्वयं चीणों प्रतिचरति द्वौ तु परचीौँ ऐरावतोऽप्यभ्यन्तरं प्रविशन् प्रतिमण्डलं द्वौ चतुर्भागौ स्वचीौँ प्रतिचरति द्वौ तु परचीर्णाविति सर्वसङ्ख्यया प्रतिमण्डलमेकैकेनाहोरात्रद्वयेन उभय
सूर्यचीर्णप्रतिचरणविवक्षायामष्टौ चतुर्भागाः प्रतिचीर्णाः प्राप्यन्ते, ते च चतुर्भागाश्चतुर्विंशत्यधिकशतसत्काष्टादशभाग४ प्रमिताः, एतच्च प्रागेव भावितं, ततोऽष्टादशभिर्गुणिताश्चतुश्चत्वारिंशदधिकं शतं भागानां भवति, तत एतदुक्कं भवति
॥२३॥
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org