SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ- तिवृत्तिः (मल०) ॥२५४॥ राशि ण्यते जातः स तावानेव तस्यायेन राशिना १८३० भागहरणं, स चोपरितनस्य राशेः स्तोकत्वाद् भार्ग न लभते १५ प्राभते ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि चन्द्रादीना पञ्चदशोत्तराणि । तत आगतमेकत्रिंशता भागैन्यूँनमेकमद्धमण्डलं नवभिः पञ्चदशोत्तरैः प्रविभक्तमिति । 'ता एगमहोरात्रममेगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता एग'मित्यादि, एकमर्द्धमण्डलं चरति, एतच्च सुप्रतीत मेव, Pण्डलयुगग'ता एगमेगेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह–'ता एगमेगेण'मित्यादि, एकमर्द्धमण्डल द्वाभ्यां तयः सू८६ भागाभ्यामधिकं चरति द्वात्रिंशदधिकैः सप्तभिः शतैरर्द्धमण्डलं छित्त्वा, तथाहि-यद्यहोरात्राणामष्टादशभिः शतैस्त्रिंशदधिकैरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धमण्डलानि लभ्यन्ते तत एकेनाहोरात्रेण किं लभ्यते ?, राशि त्रयस्थापना १८३० । १८३५ । १ । अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन राशिना १८३० भागहरणं लब्धमेकमर्द्धमण्डलं शेषास्तिष्ठन्ति पञ्च ततश्छेद्यच्छेदकराश्योरर्द्धतृतीयैरपवर्त्तना जाताबुपरि । द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागौ । अधुना एकै परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतन्निरूपणार्थमाह-'ता एग'मित्यादि, ता इति पूर्ववत् , एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैश्चरति ?, भगवानाह-'ता दोहिं'इत्यादि द्वाभ्यामहोरात्राभ्यां चरति एकत्रिंशता भागेरधि ॥२५४॥ काभ्यां चतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवं छित्त्वा, तथाहि-यादे चन्द्रस्य मण्डलानामष्टभिः शतैश्चतुरशीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे ?, राशित्रय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy