SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) 5455 सू७६ ॥२२०॥ स्स य अयणसमा आउट्टीओ जुगंमि दस होति। चंदस्स य आउट्टी सयं च चोत्तीसय चेव ॥१॥"अथ कथमवसीयते सूर्यस्या- १२ प्राभृतेवृत्तयो युगे दश भवन्ति चन्द्रमसश्चावृत्तीनां चतुस्त्रिंशं शतमिति, उच्यते, उक्तं नाम आवृत्तयो भूयो भूयो दक्षिणोत्तर- | आवृत्तयः गमनरूपास्ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते त्रैराशिकबलात् , तथाहि-यदि त्र्यशीत्यधिकेन शतेन दिवसानामेकमयनं भवति ततोऽष्टादशभिः शतैस्त्रिंशदधिकैः कति अय|नानि लभ्यन्ते, राशित्रयस्थापना १८३ । १ । १८३० । अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनं एकस्य च गुणने तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेषामायेन राशिना व्यशीत्यधिकशतप्रमाणेन भागहरणं लब्धा दश, आगतं युगमध्ये सूर्यस्य दश अयनानि भवन्तीत्यावृत्तयोऽपि दश, तथा यदि त्रयोदशभिर्दिवसैश्चतुश्चत्वारिंशता |च सप्तपष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसशतैस्त्रिंशदधिकैः कति चन्द्राययनानि भवन्ति, ।। १ । १८३० । तत्राद्ये राशौ सवर्णनाकरणार्थं त्रयोदशापि दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंश सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, यानि चाष्टादश शतानि त्रिंशदधिकानि | तान्यपि सवर्णनाथ सप्तषष्ट्या गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहस्रे पट् शतानि दशोत्तराणि १२०२६१० ॥२२०॥ तच्चैवरूपेणान्त्येन राशिना मध्यमस्य राशेरेककरूपस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येतावानेव राशिजातस्तस्य नवभिः शतैः पञ्चदशोत्तरैर्भागो हियते लब्धं चतुस्त्रिंशं शतं १३४ एतावन्ति चन्द्रायणानि युगमध्ये भवपान्तीत्येतावत्यश्चन्द्रमस आवृत्तयः । सम्प्रति का सूर्यस्यावृत्तिः कस्यां तिथौ भवतीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं || Jain Education Interation XI For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy