________________
४ शतैश्चत्वारिंशदधिः १४६४० चत्वारः परिपूर्णा नक्षत्रपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पञ्च पञ्चाशद|धिकानि ३३५५ तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् द्वात्रिंशच्छतानि सप्तषश्यभ्यधिकानि ३२६७ तेभ्यो
द्वात्रिंशता शतैरष्टापश्चाशदधिकै ३२५८ अश्लेषादीनि मृगशिरापर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः शेषा नव ९ तेन |चार्दा न शुक्ष्यति, तत आगतं नव चतुस्त्रिंशदधिकशतभागान् आसत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वमृतुं परिसमापयति । तदेवमुक्ताः सूर्यर्तवः, सम्पति चन्द्र नां चत्वारि शतानि व्युत्तराणि ४०२, तथाहि-एकस्मिन्नक्षत्रपर्याये चन्द्रस्य षट् ऋतवो भवन्ति चन्द्रस्य च नक्षत्रपर्याया युगे भवन्ति सप्तषष्टिसङ्ख्यास्ततः सप्तर्षष्टिः पद्भिर्गुण्यते जातानि चत्वारि शतानि व्युत्तराणि ४०२ एतावन्तो युगे चन्द्रस्य ऋतवः, उक्तं च-"चत्तारि उउसयाई बिउत्तराई जुगंमि चंदस्स ।' एकैकस्य चंद्रत्तोंः परिमाणं परिपूर्णाश्चत्वारोऽहोरात्राः पञ्चमस्य चाहोरात्रस्य सप्तत्रिंशत्सप्तपष्टिभागाः, तथा चोक्तम्-"चंदस्सुउ|परिमाणं चत्तारि अ केवला अहोरत्ता । सत्तत्तीसं अंसा सत्तहिकएण छेएणं ॥१॥" कथमेतदवसीयते इति चेत् , उच्यते, इहैकस्मिन्नक्षत्रपर्याये षट् ऋतव इति प्रागेवानन्तरमुक्तम् ,नक्षत्रपर्यायस्य चन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः तत्राहोरात्राणां षड्भिागो हियते लब्धाश्चत्वारोऽहोरात्राः शेषास्तिष्ठन्ति त्रयस्ते | सप्तषष्टिभागकरणार्थ सप्तषट्या गुण्यन्ते जाते द्वे शते एकोत्तरे २०१ तत उपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते द्वाविंशत्यधिक २२२ तेषां षड्भिर्भागे हृते लब्धाः सप्तत्रिंशत् ३७ सप्तषष्टिभागाइति, तेषां च चन्द्रनामानयनाय । पूर्वाचायरिदं करणमुक्त-"चंदऊऊआणयणे पर्व पन्नरससंगुणं नियमा।तिहिसखित्तं संत बावट्ठीभागपरिहीणं ॥१॥चोत्तीस
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org