SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Jain Education International रिंशत् शुद्धा, स्थिते पश्चाद् द्वे शते त्रिषष्ट्यधिके २६३, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धः शेषं जातमेकोनत्रिंशं शतं १२९, तेभ्यश्च धनिष्ठा न शुद्ध्यति, तत आगतं - एकोनत्रिंशं शतं चतुस्त्रिंशदधिकशतभागानां धनिष्ठासत्कमवगाह्य चन्द्रः प्रथमं सूर्यतुं परिसमापयति, यदि द्वितीयसूर्यर्त्तजिज्ञासा तदा स ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाण स्त्रिभिर्गुण्यते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानि शेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि ८७३, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ७३९, ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा, जातानि पट् शतानि पश्चोत्तराणि ६०५ ततोऽपि सप्तषष्ट्या शतभिषक् शुद्धा, स्थितानि पञ्च शतान्यष्टात्रिंशदधिकानि ५३८, तेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि शतानि चतुरधिकानि ४०४, तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थिते शेषे त्र्युत्तरे द्वे शते २०३, ताभ्यामपि चतुस्त्रिंशदधिकेन शतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्ततिः ६९, आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिकशतभागानामवगाह्य द्वितीयं सूर्य चन्द्रः परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीयं, त्रिंशतमसूर्यर्त्तजिज्ञासायां स एव ध्रुवराशिः पश्चोत्तरशतत्रयसाय एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नव | शतानि पञ्चनवत्यधिकानि १७९९५, तत्र पत्रिंशता शतैः षष्ट्यधिकैरेको नक्षत्रपर्यायः शुद्ध्यति, ततः पटूत्रिंशच्छतानि |पष्ट्यधिकानि चतुर्भिर्गुणयित्वा ततः शोध्यन्ते स्थितानि पश्चात्रयस्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ३३५५ ताभ्यां द्वात्रिंशता शतैः पञ्चविंशत्यधिकैर भिजिदादीनि मूलपर्यन्तानि शुद्धानि स्थितं पश्चात्रिंशदधिकं शतं १३० तेन च पूर्वा For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy