________________
*
45- 4555555
दादयो मासास्ताश्च तिथयो भाद्रपदाचा-भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः, तथाहि-प्रथम
ऋतुर्भाद्रपदमासे समाप्तिमुपयाति, तत एक मासमश्वयुग्लक्षणमपान्तराले मुक्त्वा कार्तिके मासे द्वितीय ऋतुः परिसमाप्ति४ मियति, एवं तृतीयः पौषमासे चतुर्थः फाल्गुने मासे पञ्चमो वैशाखे मासे षष्ठ आपाढे, एवं शेषा अपि ऋतव एष्वेव षट्सुमा
सेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु, तथा प्रथम ऋतुःप्रतिपदि समाप्तिमेति द्वितीयस्तृतीयायां तृतीयः पञ्चम्यां चतुर्थः सप्तम्यां पञ्चमोनवम्यां षष्ठ एकादश्यां सप्तमस्त्रयोदश्यां अष्टमः पञ्चदश्यां, एते सर्वेऽपि ऋतवो बहुलपक्षे, ततो नवम ऋतुः शुक्लपक्षे द्वितीयायां दशमश्चतुर्थ्यांमेकादशः षष्ठ्यां द्वादशोऽष्टम्यां त्रयोदशो दशम्यां चतुर्दशी द्वादश्यां पञ्चदशश्चतुर्दश्यां, एते सप्त ऋतवः शुक्लपक्षे, एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्याड़े भवन्ति, तत उक्तक्रमेणैव शेषा अपि पश्चदश ऋतवो युगस्याड़े भवन्ति, तद्यथा-पोडश ऋतुर्बहुलपक्षे प्रतिपदि सप्तदशः तृतीयायामष्टादशः पञ्चम्यामेकोनविंशतितमः सप्तम्यां विंशतितमो नवम्यामेकविंशतितमः एकादश्यां द्वाविंशतितमः त्रयोदश्यां त्रयोविंशतितमः पञ्चदश्यां एते षोडशादयस्त्रयोविंशतिपर्यन्ता अष्टौ बहुलपक्षे, ततः शुक्लपक्षे द्वितीयायां चतुर्विंशतितमः पञ्चविंशतितमश्चतुर्य्या षट्विंशतितमः षष्ठ्यां सप्तविंशतितमोऽष्टम्यां अष्टाविंशतितमो दशम्यां एकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्या, तदेवमेते सर्वेऽपि ऋतवो युगे मासेष्वेकान्तरितेषु तिथिष्वपि चैकान्तरितासु भवन्ति, एतेषां च ऋतूनां चन्द्रनक्षत्रयोगपरिज्ञानार्थ सूर्यनक्षत्रयोगपरिज्ञानार्थ च पूर्वाचार्यैः करणमुक्तं, ततस्तदपि विनेयजनानुग्रहाय दयते-"तिन्नि सया पंचहिगा अंसा छेओ सयं च चोत्तीसं । एगाइबिउत्तरगुणो धुवरासी होइ नायबो ॥१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org