SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञशिवृत्तिः ( मल० ) ॥२०४॥ भागानां ५४९००, तत एतेषां द्वाषष्ट्या भागो हियते, लब्धानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य त्रिंशद् द्वाषष्टिभागाः ८८५ । 'ता एस णं अद्धा' इत्यादि, प्राग्वद् भावनीयं, 'ता एएसि ण' मित्यादि, तृतीयऋतु संवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवान् प्रतिवचनमाह - 'ता तीसे ण'मित्यादि ता इति पूर्ववत् त्रिंशता रात्रिन्दिवाग्रेण ऋतुमास आख्यात इति वदेत्, तथाहि — ऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतसज्यानां त्रिंशदधिकानामहोरात्राणामेकपष्ट्या भागो हियते, लब्धास्त्रिंशदहोरात्राः ३०, 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता नव मुहुत्तसया' इत्यादि, नव मुहूर्त्तशतानि मुहूर्त्ताग्रेणाख्यात इति वदेत्, तथाहित्रिंशद्रात्रिन्दिवानि ऋतुमासपरिमाणमेकैकस्मिंश्च रात्रिन्दिवे त्रिंशन्मुहूर्त्तास्ततस्त्रिंशतस्त्रिंशता गुणने नव शतानि भवन्तीति, 'ता एएसि ण' मित्यादि, प्राग्वद् भावनीयं, 'ता एएसि ण'मित्यादि चतुर्थ सूर्य संवत्सरविषयं प्रश्नसूत्रं तच सुगमं, भगवानाह - 'ता तीस' मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवस्य एकमपार्द्धभागं, एक मर्द्धमित्यर्थः, एतावत्प्रमाणः सूर्यमासो रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तथाहि - सूर्यमासा युगे षष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादशशत सङ्ख्यानां षष्ट्या भागो हियते, लब्धाः सार्द्धास्त्रिंशदहोरात्राः, 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'नवपण्णरे' इत्यादि नव मुहूर्त्तशतानि पञ्चदशाधिकानि मुहूर्त्त - परिमाणेनाख्यात इति वदेत्, तथाहि - सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्यार्द्धं तच्च त्रिंशता गुण्यन्ते, जातानि नव शतानि, रात्रिन्दिवाद्धे च पञ्चदश मुहूर्त्ता इति, 'ता एएसि ण' मित्यादि, प्राग्वद् भाव Jain Education International For Personal & Private Use Only १२ प्राभृते २२ प्राभूत प्राभृते नक्षत्रादिवर्षरात्रिन्दिवमुहूर्त्तमानं सू ७२ ॥२०४॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy