________________
SAHARASHTRA
धिकस्य शतस्य एकत्रिंशता भागो हियते, लब्धाः चत्वारः सप्तषष्टिभागाः, द्वौ चूर्णिकाभागौ तिष्ठतः, चत्वारश्च सप्तष|ष्टिभागा उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाताः षष्टिः सप्तषष्टिभागाः, चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिमण्डलैस्त्रयोदशभिश्च सप्तपष्टिभागैरयनं शुद्धं, तेन पूर्वाण्ययनानि चतुर्दशसङ्ख्यानि युतानि क्रियन्ते, ततः 'अयनं रूपाधिकं कर्त्तव्य'मिति वचनाद्भूयोऽपि तत्रैकं रूपं प्रक्षिप्यते, जातानि षोडश अयनानि, सप्तषष्टिभागाश्च चतुष्पञ्चाशत्सङ्ख्या मण्डलराशावुद्धरितास्तिष्ठन्ति, ते सप्तषष्टिभागराशौ षष्टिरूपे प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतं ११४, तस्य सप्तषष्ट्या भागो हियते, लब्धमेकं मण्डलं, पश्चादवतिष्ठन्ते सप्तचत्वारिंशत् सप्तपष्टिभागाः, ततो 'दो य होति भिन्नंमि'इति वचनान्मण्डलराशौ द्वे रूपे प्रक्षिप्यते, जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलान्यभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, तत आगतं चतुर्दशं पर्व पोडशेऽयनेऽभ्यन्तरमण्डलादारभ्य तृतीये मण्डले सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोर्गतयोः परिसमामोतीति । तथा द्वापष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिषिष्ट्या गुण्यते, जातानि द्वाषष्टिरयनानि द्वाषष्टिमण्डलानि द्वे शते अष्टाचत्वारिंशदधिके सप्तषष्टिभागानां २४८ पञ्च शतानि अष्टापञ्चाशदधिकानि एकत्रिंशद्भागानां ५५८, तेषामेकत्रिंशता भागे हृते लब्धाः परिपूर्णाः अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाते द्वे शते षषष्ट्यधिके २६६, उपरि च द्वापष्टिमण्डलानि, तेभ्यो द्विपञ्चा-13 शता मण्डलैर्द्विपञ्चाशता च एकस्य मण्डलस्य सप्तपष्टिभागैश्चत्वारि अयनानि लब्धानि, तान्ययनराशौ प्रक्षिप्यन्ते, जातानि
dan Education International
For Personal & Private Use Only
www.iainelibrary.org