SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) १ प्राभृते १प्राभृतप्राभृतं कलया २-मात्रया २ इत्यर्थः अपरमण्डलाभिमुखमभिसर्पन्तौ चार चरत इति । तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहूर्तेषु गतिः-गतिपरिमाणमभिधातव्यं, तत्र निष्कामति प्रविशति वा सूर्ये यादृशी गतिर्भवति तादृशीमभिधित्सुराह'निक्खमें'त्यादि निष्क्रामन्-सर्वाभ्यन्तरान्मण्डलादहिर्निर्गच्छन् सूर्यो यथोत्तरं मण्डलं सङ्क्रामन् शीघ्रगतिः शीघ्रतरगतिर्भवति, प्रविशन्-सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगतिः मन्दमन्दगतिः, तेषां च मण्डलाना चतुरशीतं-चतुरशीत्यधिकं शतं सूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहूर्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तयो नाम-मतान्तररूपा भवन्ति । सम्प्रति कस्मिन् प्राभृतप्राभृते कति प्रतिपत्तय इत्येतत्प्ररूपयति-द्वितीये प्राभृते त्रिष्वपि प्राभृतप्राभृतेषु यथाक्रममेवंसङ्ख्याः प्रतिपत्तयो भवन्ति, तद्यथा-प्रथमे प्राभृतप्राभृते उदये-सूर्योदयवक्तव्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगणधरैः प्रतिपत्तयो, द्वितीये प्राभृतप्राभृते भेदघाते-भेदघातरूपे परमतवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहूर्तगतौ-मुहूर्तगतिवक्तव्यतोपलक्षिते चतस्रः प्रतिपत्तयो भवन्ति, 'चत्तारी'ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गं व्यभिचारि, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्गं व्यभिचार्यपी'ति । सम्प्रति दशमप्राभृते यान्यपान्तरालवत्तींनि द्वाविंशतिसङ्ग्यानि प्राभृतप्राभृतानि तेषामर्थाधिकारमाह-दशमे प्राभृते एतानि-सूत्रे पुंस्त्वनिर्देशःप्राकृतत्वात् एतदथाधिकारोपेतानि द्वाविंशतिः प्राभृतप्राभृतानि भवन्ति,तद्यथा-प्रथमे प्राभृतप्राभृते नक्षत्राणामावलिकाक्रमोवक्तव्यो, यथा अभिजिदादीनि नक्षत्राणि भवन्तीति १, द्वितीये नक्षत्रविषयं मुहू ग्रं-मुहूर्तपरिमाणं वक्तव्यं २, तृतीये 'एवं भागा'इति 'पूर्वभागा'इति पूर्वपश्चि ॐॐॐॐHARASHTRA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy