SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ कस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे 'कथं' केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः - प्रका शस्य संस्थिति:- अवस्थानमिति ६, सप्तमे के पुद्गलाः सूर्य वरयन्ति-सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथं' केन प्रकारेण भगवन् ! 'ते' तव मतेन सूर्यस्योदय संस्थितिः ८, नवमे कतिकाष्ठा - किंप्रमाणा पौरुषीच्छाया ९, दशमे योग इति वस्तु किं 'ते' त्वया भगवताऽऽख्यातमिति १०, एकादशे कस्ते - तव मतेन संवत्सराणामादिरिति ११, द्वादशे कति संवत्सरा इति १२, त्रयोदशे 'कथं' केन प्रकारेण चन्द्रमसो वृद्धिः - वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृद्ध्यषृद्धिप्रतिभास इत्यर्थः १३, चतुर्दशे 'कदा' कस्मिन् काले 'ते' तव मतेन चन्द्रमसो ज्योत्स्ना बहुः प्रभूतेति, १४, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५, षोडशे किं ज्योत्स्नालक्षणमिति वक्तव्यं १६, सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाद्भूभागादूर्ध्वमुश्चत्वं यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्यं १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति २० । एवमनन्तरोक्तेन प्रकारेण एतानि अनन्तरोदितार्थाधिकारोपेतानि विंशतिः प्राभृतान्यस्यां सूर्यप्रज्ञसौ वक्तव्यानि, अथ प्राभृतमिति कः शब्दार्थः १, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशकालोचितं दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षेणासमन्ताद् श्रियते-पोष्यते चित्तमभीष्टस्य पुरुपस्यानेनेति प्राभृतमिति व्युत्पत्तेः, 'कुडहुल' मिति वचनाच्च करणे कप्रत्ययः, विवक्षिता अपि च ग्रन्थपद्धतयः परम| दुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुण कलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते, ततः प्राभृतानीव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy