________________
सूर्यप्रज्ञसिवृत्तिः ( मल० )
॥१०७॥
तया योगः प्रवृत्त इतीदं पूर्वभागमुच्यते, तथा चाह - 'ता पुढे' त्यादि, ततः समर्पणादनन्तरं पूर्वप्रोष्ठपदा नक्षत्रं खलु पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त्त तत्प्रथमतया प्रातश्चन्द्रेण सह योगं युनक्ति, तच्च तथायुक्तं सत् ततः प्रातः समयादूर्ध्वं तं सकलं दिवसमपरां च रात्रिं यावद्वर्त्तते, एतदेवोपसंहारव्याजेनाह - ' एवं खल्वि'त्यादि सुगमं यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रमुत्तरयोः प्रोष्ठपदयोः समर्पयति, इदं किलोत्तराभद्रपदाख्यं - नक्षत्रमुक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधिगच्छति, केवलं प्रथमान् पश्ञ्चदश मुहूर्त्तान् अधिकानपनीय समक्षेत्रं कल्पयित्वा यदा योगश्चिन्त्यते तदा नक्तमपि योगो ऽस्तीत्युभयभागमवसेयं, तथा चाह - 'ता' इत्यादि, ततः समर्पणादनन्तरं (उत्तरं ) प्रोष्ठपदानक्षत्रं खलूभयभागं व्यर्द्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त्त तत्प्रथमतया - योगप्रथमतया प्रातश्चन्द्रेण सार्द्धं योगं युनक्ति, तच्च तथायुक्तं सत् तं सकलमपि दिवसमपरां च रात्रिं ततः पश्चादपरं दिवसं यावद् वर्त्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति — ' एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं रेवत्याः समर्पयति, तत्र रेवतीनक्षत्रं सायंसमये चन्द्रेण सह योगमधिगच्छति, ततस्तत्पश्चाद्भागमवसेयं, तथा चाह - 'ता रेवई' इत्यादि, 'ता' इति ततः समर्पणादनन्तरं शेषं सुगमं, इदं च चन्द्रेण सह युक्तं सत्सायंसमयादूर्द्ध सकलां रात्रिं अपरं च दिवसं यावच्चन्द्रेण सह युक्तमवतिष्ठते, समक्षेत्रत्वात् एतदेवोपसंहारत आह- ' एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रमविन्याः समर्थयति, तत इदमप्यश्विनीनक्षत्रं सायं समये चन्द्रेण सह युज्यमानत्वात् पश्चाद्भागमवसेयं, तथा चाह - 'ता' इत्यादि सुगमं, नवरमिदमपि अश्विनीनक्षत्रं समक्षेत्रत्वात् सायंसमयादारभ्य तां सकलां रात्रिमपरं च दिवसं यावच्चन्द्रेण सह
Jain Education International
For Personal & Private Use Only
१० प्राभृते ४ प्राभृत
प्राभृतं योगादिः
सू. ३६
॥ १०७ ॥
www.jainelibrary.org