________________
१० प्राभृते ४प्राभृतप्राभृतं योगादिः सू ३६
॥१०६॥
सूर्यप्रज्ञ
उत्तराभद्दवता हत्थो चित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तरभद्दवदा अणुराहा विवृत्तिः जहा धणिट्ठा सयभिसया मूला पुवासाढा य जहा पुत्वभद्दपदा उत्तरासाढा जहा' उत्तराभद्दवता (सूत्रं ३६)॥५ (मल.) हदसमस्स चउत्थं पाहुडपाहुडं समत्तं ॥
|- 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं त्वया भगवन् योगस्यादिराख्यात इति वदेत् ?, इह निश्चयनयमतेन चन्द्रयोगस्यादिः सर्वेषामपि नक्षत्राणामप्रतिनियतकालप्रमाणा, ततः सा करणवशादवगन्तव्या, तच्च करणं ज्योतिष्करण्डके समस्तीति तट्टीका कुर्वता तत्रैव सप्रपञ्चं भावितं अतस्ततोऽवधार्य, अत्र तु व्यवहारनयमधिकृत्य बाहुल्येन यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवति तमभिधित्सुराह-अभीइ'इत्यादि, ता इति पूर्ववत्, द्वे अभिजिच्छ्रवणाख्ये नक्षत्रे पश्चाद्भागे समक्षेत्रे, इहाभिजिन्नक्षत्रं न समक्षेत्रं नाप्यपार्द्धक्षेत्रं नापि व्यर्द्धक्षेत्रं, केवलं श्रवणनक्षत्रेण सह सम्बद्धमुपात्तमित्यभेदोपचारात् तदपि समक्षेत्रमुपकल्प्य समक्षेत्रमित्युक्तं, सातिरेकैकोनचत्वारिंशन्मुहूर्त्तप्रमाणे, तथाहि-सातिरेका नव मुहूर्त्ता अभिजितस्त्रिंशन्मुहूर्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्तपरिमाणं भवति, तत्प्रथमतया-चन्द्रयोगस्य प्रथमतया सायं-विकालवेलायां, इह दिवसस्य कतितमाञ्चरमाद्भागादारभ्य यावद्रात्रेः कतितमो भागो यावन्ना-| द्यापि परिस्फुटनक्षत्रमण्डलालोकस्तावान् कालविशेषः सायमिति विवक्षितो द्रष्टव्यः, तस्मिन् सायंसमये चन्द्रेण सार्द्ध योग युक्तः, इहाभिजिनक्षत्रं यद्यपि युगस्यादौ प्रातश्चन्द्रेण सह योगमुपैति तथापि श्रवणेन सह सम्बद्धमिह तद्विवक्षितं. श्रवणनक्षत्रं च मध्याह्लादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगमुपादत्ते ततस्तत्साहचर्यात् तदपि सायंसमये चन्द्रेण
355555453
॥१०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org