SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्ति (मल.) ॥९१॥ ८प्राभृते लवणादौ समयादि सू२९ शेषैश्च तीर्थकरैः हे श्रमणायुष्मन् ! ततस्तत्रावसप्पिण्युत्सर्पिण्यभावः, 'एवमुस्सप्पिणीवित्ति, एवमुक्तेन प्रकारेणोत्सपिण्यपि-उत्सर्पिण्यालापकोऽपि वक्तव्यः,स चैवम्-'ताजया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवजइ तया णं उत्तरद्धेवि पढमा उस्सप्पिणी पडिवज्जइ, जया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरथिमपञ्चत्थिमेणं नेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नत्ते समणाउसो!' तदेवं जंबूद्वीपवक्तव्यतोक्का, सम्प्रति लवणसमुद्रवक्तव्यतामाह-'लवणे णं समुद्दे'इत्यादि, तहेव'त्ति यथा जम्बूद्वीपे उद्गम| विषये आलापक उक्तः तथा लवणसमुद्रेऽपि वक्तव्यः, स चैवम्-'लवणे णं सूरिया उईणपाईणमुग्गच्छ पाईणदाहिण-12 मागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छति, पाईणउईणमुग्गच्छ उईणपाईणमागच्छति' इदं च सूत्रं जम्बूद्वीपगतोद्गमसूत्रवत् स्वयं परिभावनीयं, नवरमत्र सूर्याश्चत्वारो वेदि| तव्याः, 'चत्तारि य सागरे लवणे' इति वचनात् , ते च जम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तद्यथा-दौ सूर्यों एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदैकः सूर्यो जम्बू, द्वीपे दक्षिणपूर्वस्यामुद्गच्छति तदा तत्समश्रेण्या प्रतिबद्धौ द्वौ सूर्यों लवणसमुद्रे तस्यामेव दक्षिणपूर्वस्यामुदयमागच्छतस्तदैव जम्बूद्वीपगतेन सूर्येण सह तत्समश्रेण्या प्रतिबद्धौ द्वावपरौ लवणसमुद्रे अपरोत्तरस्यां दिशि उदयमासादयतः, तत उदयविधिरपि द्वयोर्द्वयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, तथा चाहता जया 'मित्यादि सुगम, नवरं 'जहा जंबुद्दीवे दीवे'इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपञ्च 645454546 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy