________________
सूर्यप्रज्ञशिवृत्तिः मल० )
॥ ९० ॥
द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च अनन्तरः- अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः तस्मिन् कालसमये वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः, इह यस्मिन् समये दक्षिणार्द्धे उत्तरार्द्धे च वर्षाकालस्य प्रथमः समयो भवति तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीति एतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोतरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं १, उच्यते, इह क्रमोत्क्रमाभ्यामभिहितोऽर्थः | प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः, 'जहा समय' इत्यादि, यथा समय उक्तः तथा आवलिका प्राणापानौ स्तोको लवो मुहूर्त्तोऽहोरात्रः पक्षो मास ऋतुश्च प्रावृडादिरूपो वक्तव्यः एवं च समयगतमालापकमादिं कृत्वा दश आलापका एते भवन्ति, ते च समयगतालापकरीत्या स्वयं परिभावनीयाः, तद्यथा - 'जया णं जंबुद्दीवे दीवे वासाणं पढमा आवलिया पडिवज्जइ तथा णं उत्तरद्धेवि वासाणं पढमा आवलिया पडिवज्जइ, जया णं उत्तरढे वासाणं पढमा आवलिया पडिवज्जइ तथा णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरच्छिमपच्चत्थिमे णं अनंतरपुरखडकालसमयंसि वासाणं पढमा आवलिया पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्स पवयस्स पुरच्छिमे णं वासाणं पढमा आवलिया पडिवज्जइ [ तया णं पञ्चत्थिमेणं पढमा आवलिया पडिवज्जइ २] तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स उत्तरदाहिणे णं अणंतरपच्छाकडकालसमयंसि वासाणं पढमा आवलिया पडिवन्ना भवइ' इदं च प्रागुक्तव्याख्यानुसारेण | व्याख्येयं, नवरं 'आवलिया पडिवजइत्ति आवलिका परिपूर्णा भवति, शेषं तथैव, एवं प्राणापानादिका अध्यालाप का
Jain Education International
For Personal & Private Use Only
८ प्राभृते उदयसं
स्थितिः
सू २९
1180 11
www.jainelibrary.org