________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥८८॥
यदा चोत्तरार्द्ध द्वादशमुहूर्ता रात्रिर्भवति (तदा दक्षिणार्धे द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तराः द्वादशमुहूर्ता
८प्राभृते. नन्तरो दिवसोभवति तदा दक्षिणार्द्ध द्वादशमुहूर्त्तारात्रिः, तदा चाष्टादशमुहूर्त्तानन्तरादिदिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य
उदयसंपर्वतस्य 'पुरच्छिमपचत्थिमेणं'ति पूर्वस्यां पश्चिमायां च दिशि नैवास्त्येतत् यदुत पञ्चदशमुहूत्तों दिवसो भवति, नाप्यस्येतत् स्थितिः | यथा-पञ्चदशमुहूर्त्तारात्रिर्भवतीति, कुत इत्याह-वोच्छिन्नाण'मित्यादि, व्यवच्छिन्नानि णमिति वाक्यालंकारे खलु तत्र | सू २९ मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशिरात्रिन्दिवानि प्रज्ञप्तानि, हे श्रमण! हे आयुष्मन् !, अत्रैवोपसंहार एगे एवमाहंसु ३' एताश्च तिम्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात् , अपिच-ये तृतीया वादिनः सदैव रात्रिं द्वादशमुहूर्तप्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एव हीनाधिकरूपाया रात्रेपलभ्यमानत्वात् । सम्पति स्वमतं भगवानुपदर्शयति-वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जीवे दीये' इत्यादि, 'ता'इति पूर्ववत् जम्बूद्वीपे २ सूर्यों यथायोग मण्डलपरिभ्रम्या भ्रमन्तौ मेरोरुदकुमाच्यां-उत्तरपूर्वस्यां दिशि उद्गच्छतः, तत्र चोद्गत्य प्रारदक्षिणस्यां-दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्रारदक्षिणखा-दक्षिणपूर्व
स्यामुद्गत्य दक्षिणापाच्या-दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्यामपरविदेहक्षेत्रापेक्षया उद्गत्यापागुदीच्यां& अपरोत्तरस्यामागच्छतः, तत्रापि चापरोत्तरस्यामरावतादिक्षेत्रापेक्षया उद्गस्य उदक्पाच्या उत्तरपूर्वस्यामागच्छतः, एवं In
तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरयं-यदैकः सूर्यः पूर्वदक्षिणस्यामुगच्छति तदा अपरोऽपरोत्तरस्यां दिशि समुद्गच्छति, दक्षिणपूर्वोद्गतश्च सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्वीनि मण्डलचम्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org