SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञसिवृत्तिः (मल०) ४ प्राभृते तापक्षेत्रंप्रमाणं सू २५ ॥७४॥ गुणनं, तौ च द्वौ दशभागाविति दशभिर्भागहरणं, 'सेसं तं चेय'त्ति शेषं तदेव प्रागुक्तं वक्तव्यं, तच्चेदम्-'दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थः-दशभिश्छित्त्वा-दशभिर्विभज्य दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि-मेरुपर्वतपरिरयपरिमाणमेकत्रिंशद्योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि ३१६२३, एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टिः सहस्राणि द्वे शते षट्चत्वारिंशदधिके ६३२४६, एतेषां दशभिर्भागे हृते लब्धानि षट् योजनसहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ । तत एष एतावाननन्तरोंदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया बाहाया विष्कम्भपरिमाणम् , अधुना सर्वबाह्याया वाहाया आह-तीसे ण'मित्यादि, तस्याः-अन्धकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्तेलवणसमुद्रसमीपे जम्बूद्वीपपर्यन्ते, सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टिर्योजनसहस्राणि द्वे पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्य यावत् ६३२४५। एतदेव स्पष्टं स्वशिष्यानवबोधयितुं भगवान् गौतमः पृच्छति-"ता से 'मित्यादि, ता इति प्राग्वत् , तस्याः-अन्धकारसंस्थितेः सः-तावान् परिक्षेपविशेषो जम्बूद्वी-13 पपरिक्षेपणविशेषः कुतः ?-कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् ?, भगवान् वर्द्धमानस्वामी आह-'ता जे णमित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिश्छित्त्वा-दशभिर्विभज्य, अत्र कारणं प्रागेवोक्तं, दशभिर्भागे ह्रियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूद्वीपप ॥७४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy