________________
योजनमेकं किल किञ्चिन्यूनमिति व्यवहारतः परिपूर्ण विवक्ष्यते, ततो द्वे शते अष्टाविंशत्यधिके वेदितव्ये ३१६२२८, एष त्रिभिर्गुण्यते जातानि नव लक्षाणि अष्टाचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि ९४८६८४, एतेषां दशभिर्भागो हियते, लब्धं यथोक्तं जम्बूद्वीपपर्यन्ते सर्वबाह्याया बाहाया विष्कम्भपरिमाणं, ततः 'एस ण' मित्यादि, एष एतावान् अनन्तरोदितप्रमाणः परिक्षेपविशेषो जम्बूद्वीपपरिरयः परिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत्, उक्तं चैतदन्यत्रापि - " जंबुद्दीवपरिरये तिगुणे दसभाइयंमि जं लद्धं । तं होइ तावखित्तं अभितरमंडले रविणो ॥ १ ॥” तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरायाः सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणमुक्तं । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं जिज्ञासुस्तद्विषयं प्रश्नमाह - 'ता से ण' मित्यादि, ता इति पूर्ववत्, तापक्षेत्रं आयामतः सामस्त्येन दक्षिणोत्तरायततया कियत्- किंप्रमाणमाख्यातमिति वदेत् ?, भगवानाह - 'ता अनुत्तर' मित्यादि ता इति पूर्ववत् अष्टसप्ततिः योजन सहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि - त्रयस्त्रिंशदधिकानि योजनत्रिभागं च यावत् आयामेन दक्षिणोत्तरायततया आख्यातमिति वदेत्, तथाहि - सर्वाभ्यन्तरे मण्डले वर्त्तमानस्य सूर्यस्य तापक्षेत्रं दक्षिणोत्तरायततया मेरोरारभ्य तावद्वर्द्धते यावलवणसमुद्रस्य षष्ठो भागः, उक्तं च - " मेरुस्स मज्झभागा जाव य लवणस्स रुंदछ भागा। तावायामो एसो सगडु
संठिओ नियमा ॥ १ ॥" अत्र 'एसो' इत्यादि, एष तापो नियमात् शकटोद्धिसंस्थितः, शेषं सुगमं, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजन सहस्राणि लवणस्य विस्तारो द्वे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजन - सहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि योजनस्य च विभागः, तत उभयमीलने यथोक्तमायामप्रमाणं भवति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org