SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सूयप्रज्ञशिवृत्तिः मल० ) ॥ ५४ ॥ मण्डले तापक्षेत्रपरिमाणं प्रागुक्तयुक्तिवशादष्टादशमुहूर्त्तगम्यं, ततश्चतुर्णा योजनसहस्राणामष्टादशभिर्गुणने भवन्ति द्विसततिर्योजनसहस्राणि, 'ता जया ण'मित्यादि, ततो यदा सूर्यः सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति, तदा 'राईदियं तहेव त्ति रात्रिंदिवं - रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तच्चैवम् -'तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्नए दुवालसमुहुत्ते दिवसे भवति' 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं अष्टाचत्वारिंशद्योजन सहस्राणि ४८०००, तदा हि तापक्षेत्रं द्वादशमुहूर्त्तगम्यं, एकैकेन च मुहूर्त्तेन चत्वारि २ योजनसहस्राणि गच्छति, ततश्चतुर्णा योजनसहस्राणां द्वादशभिर्गुणनेऽष्टाचत्वारिंशत्सहस्राणि भवन्ति, इमामेवोपपत्तिं लेशतो भावयति - 'तया ण'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले च यतश्चत्वारि योजनसहस्राणि एकैकेन मुहूर्त्तेन गच्छति ततः सर्वाभ्यन्तरे सर्व बाह्ये च मण्डले यथोक्तं तापक्षेत्रपरिमाणं भवति ३ । 'तत्थेत्यादि, तत्र ये ते वादिन एवमाहुः - पडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति ते एवमाहुः एवं सूर्यचारं प्ररूपयन्ति, सूर्य उद्गमनमुहूर्त्ते अस्तमयनमुहूर्त्ते च शीघ्रगतिर्भवति ततस्तदा - उद्गमनकालेऽस्तमयन काले च सूर्य एकैकेन मुहूर्त्तेन षट् षड् योजनसहस्राणि गच्छति, तदनन्तरं सर्वाभ्यन्तरगतं मुहूर्त्तमात्रगम्यं तापक्षेत्रं मुक्त्वा शेषं मध्यमं तापक्षेत्रं परिभ्रमेण समासादयन् मध्यमगतिर्भवति, ततस्तदा पञ्च पञ्च योजनसहस्राणि एकैकेन मुहूर्त्तेन गच्छति, सर्वाभ्यन्तरं तु मुहूर्त्तमात्रगम्यं तापक्षेत्रं सम्प्राप्तः सन् सूर्यो मन्दगतिर्भवति, ततस्तदा यत्र तत्र वा मण्डले चत्वारि २ योजनसहस्राणि एकैकेन मुहूर्त्तेन गच्छति, अत्रैव भावार्थ पिपृच्छिकुराह - 'तत्थे'त्यादि, तत्र Jain Education International For Personal & Private Use Only २ प्राभूते ३ प्राभृत प्राभृतं ॥ ५४ ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy