________________
संयमभावपरित्यागतो दुःखाद्यवाप्तिमुकुलनेन मुकुलिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उ-18 उत्कालिदूच्यन्ते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः, तथा 'वृष्णिदशा' इति 'नाम्न्युत्तरपदस्य वे'ति लक्षणवशादादिप-18 काधिक
दस्यान्धकशब्दरूपस्य लोपः, ततोऽयं परिपूर्णः शब्दः-अन्धकवृष्णिदशा इति, अयं चान्वर्थः-अन्धकवृष्णिनराधिसापकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशाः-अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता| |अन्धकवृष्णिदशाः, अथवाऽन्धवृष्णिवक्तव्यताप्रतिपादिका दशा-अध्ययनानि अन्धकवृष्णिदशाः, आह च चूर्णिणकृत्
“अन्धकवण्हिणो जे कुले अंधगसद्दलोवाओ वण्हिणो भणिया तेसिं चरियं गती सिज्झणा य जत्थ भणिया ता व[ण्हिदसाओ, दसत्ति अवत्था अज्झयणावा" इति । एवमाइया' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतोऽहंतः श्रीऋषभखामिनस्तीर्थकृतः, तथा सङ्ख्येयानि
प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम् , एतानि च यस्य यावन्ति भवन्ति तस्य ता-18 है वन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुर्दश प्रकीर्णकसहस्राणि भगवतोऽहतो वर्द्धमानखामिनः, इयमत्र भाव- १०
ना-इह भगवत ऋषभखामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन् , ततः प्रकीर्णकरूपाणि चाध्ययनानि का-| लिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् , कथमिति चेत् ?, उच्यते, इह यद्भगवदह-11 दुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरतो यदात्मनो वचन
an El
SONhternational
For Personal & Private Use Only
www.jainelibrary.org