SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ १७० ॥ भिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा | समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्या लोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्तीति ? । अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः । ननु यदि चक्षुरप्राप्यकारि तर्हि मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनर्थान् न गृह्णाति ?, यदि हि प्राप्ते परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासम्भवः सम्पर्कभावात् ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम् - " प्राप्यकारि रे चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् अदूरेतरापेक्षणाच, यदि" हि चक्षुरप्राप्यकारि भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिधातादुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगथात्र-न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्यशेपान् विषयान् गृहाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात् तस्माद् यथा मनोऽप्राप्यकार्यपि खावरणक्षयोपशमसापेक्षत्वात् नियतविषयं तथा चक्षुरपि खावरणक्षयोपशम सापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानाभिति । अपि च- दृष्टमप्राप्यकारित्वेऽपि तथाखभावविशेषाद्यो ग्यदेशापेक्षणं यथाऽयस्कान्तस्य, Jain Education International For Personal & Private Use Only चक्षुषः प्राप्यकारि लम् २० ॥ १७० ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy