SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ संस्थानेन स्थिता, ततो दृष्टवती भ्रामरं दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानमवलोक्य ज्ञातवान्- नूनमेषा दुश्चारिणीति । कौलिकस्योत्पत्तिकी बुद्धिः १८ । 'मुहिय'त्ति मुद्रिकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः - यथा परकीयान्निक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेव समर्पयतीति एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरमगमत् प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते च खं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति - कस्त्वं कीदृशो वा तव निक्षेप इति ?, ततः सरको वराकः स्वं निक्षेपमलभमानः शून्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च देहि मे | पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकर्ण्य अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्वा निवेदितं राज्ञः कारितश्च दर्शनं द्रमको, राज्ञापि भणितः पुरोधाः - देहि तस्मै द्रमकाय खं निक्षेपमिति, पुरोहितोऽवा| दीत् - देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात्, पुरोधसि च खगृहं गते राजा विजने तं द्रमकमाकार्य पृष्टवान् रे ! कथय सत्यमिति, ततस्तेन सर्वे दिवसमुहूर्त्तस्थानपार्श्ववर्त्तिमानुषादिकं कथितं ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्त्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति वभाण - रे ! पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रूहि यथाऽहं पुरोधसा प्रेषितः, | इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे मु Jain Education International For Personal & Private Use Only औत्पत्ति क्यां मुद्रा कथा १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy