SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अन्तर द्वीपाः है दक्षिणपश्चिमायां, नैर्ऋतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रम्यात्रान्तरे यथोक्त प्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च “चुलंहिमवंतपुवावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होति विच्छिन्ना ॥ १॥ अउणापन्न-18 18 नवसए किंचूणे परिहि एसिमे नामा । एगोरुअ आभासिय वेसाणी चेव नंगूली ॥२॥” तत एतेषामेकोरुका-18 दीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं २ चत्त्वारि २ योजनशतान्यतिक्रम्य चतुर्योजन-1 शतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्ट्यधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपावरवेदिकावनखण्डमण्डितपरिसराः हयकर्णगजकर्णगोकर्णशष्कुलीकर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्णः, आभासि-18 कस्य परतो गजकर्णः, वैषाणिकस्स परतो गोकर्णो, नझोलीकस्य परतो शष्कुलीकण इति, ततः एतेषामपि हयकर्णादीनां चतुण्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च योजनशतानि व्यतिक्रम्य CASSAMSROLOGESAMEER १क्षुल्लकहिमवतः पूर्वापरयोर्विदिक्षु सागर त्रिशती । गत्वान्तरद्वीपाः त्रीणि शतानि भवन्ति विस्तीर्णाः ॥१॥ एकोनपश्चाशदधिकानि नव शतानि किंचिदूनानि परिधिः एषामिमानि नामानि । एकोक आभासिको वैषाणिकचैव नहोलिकः ॥२॥ Jain Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy