SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युतिः द्रोणीया वृत्तिः ॥३॥ Jain Education प्रतिपादिता भवति, अतः पूर्वत्रयमुलङ्घ्य दशपूर्विणां ग्रहणम्, एवं नवादिष्वपि योज्यम्, एवं व्याख्याते सत्याह परः - गुणाधिकस्य वन्दनं कर्तव्यं, न त्वधमस्य, यत उक्तम् - "गुणाहिए वंदणयं” भद्रबाहुस्वा मिनश्चतुर्दश पूर्वधरत्वात् दशपूर्व - धरादीनां च न्यूनत्वात्तत्किं तेषां नमस्कारमसौ करोति? इति, अत्रोच्यते, गुणाधिका एव ते, अव्यवच्छित्तिगुणाधिक्यात्, अतो न दोष इति । एवं व्याख्याते सत्याह परः - एकादशाङ्गसूत्रार्थधारकाणां किमर्थं क्रियते ? इति उच्यते, इह चरणकरणात्मिका ओघनिर्युक्तिः, एकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्त एव, एकादशानामङ्गानां चरणकरणानुयोगस्वात्, उपयोगित्वेनांशेन तेषां नमस्कार इति । साधूनां किमर्थमिति चेत्, ते तु चरणकरणनिष्पादकाः, तदर्थं चायं सर्व | एव प्रयास इति । अथवाऽन्यथा व्याख्यायते इदं गाथासूत्रम् - अनेन गाथासूत्रेण पञ्चनमस्कारः प्रतिपाद्यते, न च पञ्चनमस्काराल्लघुतरोऽन्योऽस्ति नमस्कार इत्यतो भद्रबाहुस्वामिना स एव कृत इति, कथम् ?, 'अरहंते वंदित्ता' इत्यनेनार्हन्नमस्कारः, 'चउदसपुच्ची तहेव दसपुबी एक्कारसंग सुत्तत्थधारए' इत्यनेनाचार्योपाध्यायनमस्कारः, यतः सूत्रप्रदा उपाध्याया अर्थप्रदा आचार्या इति । एवं व्याख्याते सत्याह एवं तर्हि 'अर्थसूत्रधारकान् इत्येव वक्तव्यम्, आचार्योपाध्यायपदयोरेवं क्रमेण व्यवस्थितत्वात्, तत्कथमेतत् १ इति, अत्रोच्यते, नावश्यमाचार्योपाध्यायैर्भिन्नैर्भवितव्यम्, अपि तु क्वचिदसावेव सूत्रं शिष्येभ्यः प्रयच्छत्यसावेव चार्थमतः 'सूत्रार्थधारकान्' इत्येवमुपन्यस्तम् । 'सर्वसाधूंश्च' इत्यनेन तु साधुनमस्कारः प्रतिपादितः । सर्वशब्दः प्रत्येकमभिसंबध्यते, ततोऽयमर्थो भवति - सर्वानर्हतः, एवं चतुर्दशपूर्वधरादीनामपि मीलनीयं, १ गुणाधिके वन्दनकं । For Personal & Private Use Only मङ्गलादि नि. १-२ ॥३॥ elibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy