________________
SAMAESSOCCASESAKALCG
देतोः अलब्धिमांश्च कश्चिद्भवति तस्यानीय दीयते तच्च पात्रकेण विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति । उक्तं पात्रकप्रमाणप्रमाणम् , इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह-.
- पत्ताबंधपमाणं भाणपमाणेण होइ कायचं । जह गंठिमि कयंमि कोणा चउरंगुला हुंति ॥ ६९३ ॥ PI पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थौ 'कृते' दत्ते सति कोणौ चतुरङ्गलप्रमाणौ भवतस्तथा कर्त्तव्यं । इदानीं पात्रकस्थापनकगोच्छकपात्रकप्रत्युपेक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह
पत्तट्ठवणं तह गुच्छओ य पायपडिलेहणीआ य । तिण्हंपि यप्पमाणं विहत्थि चउरंगुलं चेव ॥ ६९४ ॥ पात्रकस्थापनकं गोच्छकः 'पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वारि चाङ्गुलानि | प्रमाणं चतुरस्रं द्रष्टव्यं, अत्र च पात्रस्थापनकं गोच्छकश्च एते द्वे अपि ऊर्णामये वेदितव्ये, मुखवस्त्रिका खोमिया । इदानीमेषामेव प्रयोजनप्रतिपादनायाहरयमादिरक्खणट्ठा पत्तट्टवणं जिणेहिं पन्नत्तं । होइ पमजणहेउं तु गोच्छओ भाणवत्थाणं ॥ ६९५॥ पायपमजणहेउं केसरिया पाएँ पाएँ एक्केका । गोच्छगपत्तट्टवणं एक्ककं गणणमाणेणं ॥ ६९६॥ । रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसो व्यपदिशन्ति, भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति-गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा 'केसरिकाऽपि' पात्रकमुखबस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं
CoRRANGACASSES
Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org