SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ |तत निरूपयति कदाचिददका भवति, 'पाडिए'त्ति पातितश्च पात्रके पिण्डो निरूपणीयः,'गुरुयं ति गृहस्थभाजनं स्थाल्या|दि गुरुर्भवति, कदाचित्तव्यं गुडादि गुरुभवति, पाषाणादिवा भण्डकस्योपरि यो दत्तः, तथा 'तिह'त्ति त्रिविधः कालो वक्तव्यः, भावश्च-प्रशस्ताप्रशस्तरूपो वक्तव्यः।इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याख्यानायाह-| आया पवयण संजम तिविहं ठाणं तु होइ नायवं । गोणाइ पुढविमाई निद्धमणाई पवयणमि ॥२४०॥ (भा०) त्रिविधमुपघातस्थानं भवति, तद्यथा-आत्मोपघातिकं प्रवचनोपघातिकं संयमोपघातिकं चेति, तत्र यथायोगं गवादिभिरात्मोपघातिकं भवति पृथिवीकायादिभिः संयमोपघातिकं भवति निद्धमणादि-नगरोदकोपघसरादि उपघातस्थानं प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपघातो भवतीति दर्शयन्नाहगोणे महिसे आसे पेल्लण आहणण मारणं भवइ । दरगहिय भाणभेदो छड्डुणि भिक्खस्स छक्काया ॥४६३॥ चलकुडपडणकंटगबिलस्स व पासि होइ आयाए । निक्खमपवेसवजण गोणे महिसे य आसे य ॥४६४॥ । यदा गोमहिष्यादिस्थाने स्थितो भिक्षां गृह्णाति ततो महिष्यश्वादिप्रेरणं-विक्षेपणं आघातो वा मारणं तत्कृतं भवति आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्च भिक्षायाः 'छडुने' प्रोज्झने षडपि काया विराध्यन्ते, इयं संयमविराधना । अथवाऽनेन प्रकारेणात्मविराधना भवेत्-तत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमासन्ने भवति ततस्तत्पतनजनित आत्मोपघातो भवति, कण्टका वा तत्र भवन्ति, बिलस्य वा 'पार्चे' आसन्ने तत्स्थानं Jain Education internat For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy