________________
। इतश्च स्थापनाकुलपय गणधरमेरं अइकमालम्पकादिगृहं सूतको
केनचित्सह गता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का भवति, यदुत तत्कृतोऽयं घात इति, ‘वृत्तखुरः' अश्वप्रधानः केनचिदपहृतो भवेत्ततश्च साधोरुपरि बाह्वादिना दर्शयतः शङ्का भवति ॥ इदानीं यानि प्रतिकुष्टकुलानि कथितानि तान्येभिरभिज्ञानैर्वजयति
पडिकुटकुलाणं पुण पंचविहा थूभिआ अभिन्नाणं । भग्गघरगोपुराई रुक्खा नाणाविहा चेव ॥४३९॥ तेषां प्रतिकुष्ठकुलानां पञ्चविधा स्तूपिकाऽभिज्ञानं भवति, भग्नगृहसमीपादौ वा तथा गोपुरसमीपे बहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् । इतश्च स्थापनाकुलेषु न प्रवेष्टव्यं, यतः
ठवणा मिलक्खुनेडु अचियत्तघरं तहेव पडिकुटुं । एवं गणधरमेरं अइक्कमंतो विराहेजा ॥ ४४० ॥ __ स्थापनाकुलानि तथा 'मिलक्खू' म्लेच्छगृहं तथा अचियत्तगृहं तथा 'प्रतिकुष्टं' छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यं, इयं 'गणधरमेरा' गणधरस्थितिस्ततश्चैतां मर्यादां प्रवेशेनातिक्रामन् विराधयति दर्शनादि । आहप्रतिकुष्टकुलेषु प्रविशतो न कश्चित् षड्जीववधो भवति किमर्थं परिहार इति ?, उच्यते
छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य॥४४१॥ सुगमा ॥ नवरम् -आहारनीहारौ यद्यगुप्तः सन् करोति, 'जुगुप्सितेषु' छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो दुर्लभां बोधि करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ?, उच्यते
जे जहि दुगुंछिया खलु पचावणवसहिभत्तपाणेसु । जिणवयणे पडिकुटा वजेयत्वा पयत्तेणं ॥४४२ ॥
करकAA%%
मो०
२७ Jain Education
a l anal
For Personal & Private Use Only
www.jainelibrary.org