________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥११०॥
जाव गेण्हणा इत्यर्थः, अहवा तिहिं अंगुलीहिं घेत्तवं तं एक्काए चेव गेण्हइ, अहवा 'णेगामोसा' इति केचित्पठन्ति, तत्र न एके आमर्शाः अनेकामर्शाः, अनेकस्पर्शा इत्यर्थः । 'अणेगरूवधुणण 'त्ति अणेगपगारं कंपेइ, अथवा अणेगाणि वत्थाणि एगओ काऊण धुणइ । तथा 'कुणइ पमाणपमा य'ति पुरिमेषु खोटकेषु वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुक्तं भवति - तान् पुरिमादीन् ऊनानधिकान् वा करोति, 'संकिनगणणोवगं कुज्ज' त्ति शङ्किता चासौ गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तामेवंगुणविशिष्टां न कुर्यात्, एतदुक्तं भवति - पुरिमादयः शङ्किता - न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्किते सति गणनोपगां-गणनामुपगच्छतीति गणनोपगा तां गणनोपगांगणनायुक्तां प्रत्युपेक्षणां करोति पुरिमादीन् गणयन्नित्यर्थः । द्वारगाथेयम् इदानीं भाष्यकारः प्रतिपदं व्याख्यानयन्नाह - पसिढिलमघणं अतिशइयं च विसमगहणं व कोणं वा । भूमीकरलोलणया कढणगहणेक्कआमोसा ॥ १६४ ॥ ( भा० )
प्रशिथिलं - अघनं अदृढं गृह्णाति 'अतिरायितं वा' अताडितं वा प्रशिथिलमुच्यते । 'पसिढिले 'त्ति गयं, पलंबत्ति भण्यते - 'विसमगहणं व कोणंव त्ति विषमग्रहणे सति लम्बकोणं भवति वस्त्रं । 'पलंब'त्ति गयं, लोला भण्यते, तत्राह - 'भूमीकरलोलणया' भूमौ लोलयति करे - हस्ते वा लोलयति प्रत्युपेक्षमाणः । 'लोले त्ति गयं, एगामोसत्ति भव्यते, तत्राह- 'कहणगहणेगआमोसा' मध्ये वस्त्रं गृहीत्वा तावदाकर्षणं करोति यावत्रिभागशेषजातग्रहणं जातं, इयं 'एगामोसा' एकाघर्षणमित्यर्थः, अथवाऽऽकर्षणे ग्रहणे चानेके आमोसा अनेकानि स्पर्शनानि, एतदुक्तं भवति तद्वस्त्रमनेकधा स्पृशति ॥ एगामोसत्ति गयं 'अणेगरूवधुणण' त्ति भण्यते
Jain Education donal
For Personal & Private Use Only
प्रतिलेखना विधिः भा. १६३-१६४ नि. २६७
॥११०॥
www.anelibrary.org