________________
पुनरप्याह-यद्यस्ति ततः पञ्चमी भणिता किम् ?, आचार्य आह-अन्येऽप्यनुयोगाश्चत्वारः, अतःषष्ठी विद्यमानाऽपि नोक्तेति, भावना पूर्ववत् । अन्येऽप्यनुयोगाः सन्तीत्युक्तं, न च ज्ञायन्ते कियन्तोऽपि ते ? इत्यतः प्रतिपादयन्नाहचत्तारि उ अणुओगा चरणे धम्मगणियाणुओगे यादवियणुजोगे य तहा अहक्कम ते महिड्डीया ॥५॥(भा०) ___व्याख्या-चत्वार इति संख्यांवचनः शब्दः अनुकूला अनुरूपा वा योगा अनुयोगाः, तुशब्द एवकारार्थः, चत्वार एव, अन्ये तु तुशब्दं विशेषणार्थं व्याख्यानयन्ति, किं विशेषयन्तीति-चत्वारोऽनुयोगाः, तुशब्दावी च-पृथक्त्वापृथक्त्वभेदात्, कथं चत्वारोऽनुयोगाः? इत्याह-चरणे धम्मगणियाणुओगे य' चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यं, स चैकादशाङ्गरूपः, |'धम्म' इति धारयतीति धर्मः, दुर्गती पतन्तं सत्त्वमिति, तस्मिन् धर्मे-धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्ययनप्रकीर्णकरूपः, 'गणियाणुओगे य' इति गणितं तस्यानुयोगो गणितानुयोगः तस्मिन् गणितानुयोगे-गणितानुयोगविषये तृतीयो भवति, स च सूर्यप्रज्ञत्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, 'दवियणुओगे'त्ति द्रवतीति द्रव्यं तस्यानुयोगो द्रव्यानुयोगः-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः सम्मत्यादिरूपश्च, तथेति क्रमप्रतिपादकः, आगमोक्तेन प्रकारेण 'यथाक्रम' यथापरिपाव्येति, चरणकरणानुयोगाद्या महर्द्धिकाः' प्रधाना इति यदुक्तं भवति । एवं व्याख्याते सत्याह परः-'चरणे धम्मगणियाणुओगे य दवियणुओगे यत्ति यद्येतेषां भेदेनोपन्यासः क्रियते तत्किमर्थ चत्वारः ? इत्युच्यते, विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभक्त्या किमर्थमुपन्यस्तं ?,
CASCAISHAHAR
For Personal & Private Use Only
Alibrary.org