________________
तस्यामेव वसतावनुज्ञातो वासः। शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि प्राघूर्णका आगच्छन्ति ततः को विधिरित्यत आह
सकारो सम्माणो भिक्खग्गहणं च होह पाहुणए । जइ जाणउ वसइ तहिं साहम्मिअवच्छलाऽऽणाई ॥१५॥ | 'सत्कारः' वन्दनाभ्युत्थानादिकः 'सन्मानः' पादप्रक्षालनादिकः "भिक्षाग्रहणं' भिक्षानयनं च, एतत्प्राघूर्णके आगते सति - टू क्रियते । पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते यथा-परिमितैरेवैषा लब्धा, नान्यस्यावकाशः, ततश्च त्वयाऽन्यत्र |वसितव्यम् । 'यदि जाणउ वसइ तहिंति एवमसावुक्तो ज्ञोऽपि सन्-यदि जानन्नपि तत्र वसति ततः को दोषोऽत आह'साहम्मिअवच्छलाऽऽणाई' साधर्मिकवात्सल्यं न कृतं भवति, यतोऽसौ शय्यातरो रुष्टस्तानपि निर्धाटयति, आज्ञाभङ्गाश्च कृतः-आज्ञालोपश्चैवं कृतो भवति सूत्रस्य, आदिशब्दात्तद्रव्यान्यद्रव्यव्यच्छेदः । इदानीं ते क्षेत्रप्रत्युपेक्षका आचार्यसमीपमागच्छन्तः किं कुर्वन्तीत्यत आहजइ तिन्नि सवगमणं एसु न एसुत्ति दोसुवि अ दोसा ।अण्णपहेणगुणता निययावासोऽहमा गुरुणो॥१५६॥12 ___ यदि ते क्षेत्रप्रत्युपेक्षकास्त्रय एव ततः सर्व एव गमनं कुर्वन्ति, अथ सप्त पञ्च वा ततः सङ्घाटकमेकं मुक्त्वा ब्रजन्ति । एसु न एसुत्ति शय्यातरेण पृष्टाः सन्तस्ते नैवं वदन्ति-एष्यामो न वा एष्याम इति, यत एवं भणने दोषः, किं कारणं ?, यदैवं भणन्ति यदुत आगमिष्यामः, ततश्च शोभनतरे क्षेत्रे लब्धे सति नागच्छन्ति ततश्चानृतदोषः, अथ भणन्ति-नागमि
SARARSIAUSIASSAGE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org