________________
प्रज्ञापना
या: मल
य० वृत्तौ.
॥४१२॥
च प्रत्येकं सूत्रं वक्तव्यं, तदेवमेतानि त्रीणि सूत्राणि, एवमेव च सामान्यतः सम्मूच्छिमतिर्यक्पञ्चेन्द्रियाणामपि त्रीणि सूत्राणि वक्तव्यानि, नवरं तेषु त्रिष्वपि सूत्रेषु हुण्डसंस्थानसंस्थितमिति वक्तव्यं, सम्मूच्छिमाणामविशेषेण सर्वेषामपि हुण्डसंस्थानभावात् त्रीणि सामान्यतो गर्भज तिर्यक्पञ्चेन्द्रियाणामपि, नवरं तेषु त्रिष्वपि सूत्रेषु 'छविहसंठाणसंठिए पण्णत्ते' इत्यादि वक्तव्यं, गर्भजेषु समचतुरस्रादिसंस्थानानामपि सम्भवात् तदेवमेते सामान्यतस्ति|र्यक्पञ्चेन्द्रियविषया नव आलापकाः, अनेनैव क्रमेणैव जलचरतिर्यक्पञ्चेन्द्रियाणां सामान्यतः स्थलचराणां चतुष्प|दस्थलचराणामुरः परिसर्प स्थलचराणां भुजपरिसर्पस्थलचराणां खचरतिर्यक्पञ्चेन्द्रियाणां च प्रत्येकं नव २ सूत्राणि वक्तव्यानि, सर्वसङ्ख्यया तिर्यक्रपञ्चेन्द्रियाणां त्रिषष्टिः ६३ सूत्राणि मनुष्याणां नव सर्वत्र सम्मूच्छिमेषु हुण्डसंस्थानं च वक्तव्यमितरत्र पडपि संस्थानानि । तदेवमुक्तान्यौदारिकभेदानां संस्थानानि, साम्प्रतमवगाहनामानमाह
Jain Education International
ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं० १, गो० ! जहण्णेणं अंगुलस्स असंखेजतिभागं उक्को ० सातिरेगं जोयणसहस्सं, एगिंदियओरालियस्सवि एवं चैव जहा ओहियस्स, पुढविकाइयए गिंदियओरालिय सरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं० १ गो० ! ज० उ० अंगुलस्स असंखेजतिभागं, एवं अपज्जत्तयाणवि पञ्जत्तयाणवि, एवं सुहुमाणं पञ्जत्तापजत्ताणं, बादराणं पञ्जत्तापञ्जत्ताणवि, एवं एसो नवओ भेदो जहा पुढविकाइयाणं तहा आउक्काइयाणवि काइयाणवि वाउक्काइयाणवि, वणस्सइकाइयओरालियसरीरस्स पणं भंते ! केमहालिया सरीरोगाहणा पं० १,
For Personal & Private Use Only
२१ शरीरपदं
॥४१२॥
www.jainelibrary.org