________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥४११॥
ठिते पं० १, गो० ! छविहसंठाणसंठिते पं० तं० - समचउरंसे जाव हुंडे, पज्जत्तापज्जत्ताणवि एवं चेव, गन्भवकंतियाणवि एवं चैव, पञ्जत्तापज्जत्ताणवि एवं चेव, संमुच्छिमाणं पुच्छा, गो० ! हुंडठाणसंठिता पण्णत्ता ( सूत्रं २६८ ) ‘ओरालियसरीरे णं भंते !' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात्, एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषु प्रत्येकं संस्थानभेदात्, तत्र पृथिवीकायिकानां सूक्ष्माणां वादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूर चन्द्रसंस्थान संस्थितानि, मसूरो- धान्यविशेषः तस्य चन्द्रः - चन्द्राकारमर्द्धदलं तस्येव यत्संस्थानं तेन संस्थितानि, अष्कायिकानां सूक्ष्मादिभेदतः चतुर्भेदानामौदारिकशरीराणि | स्तिबुक विन्दु संस्थानसंस्थितानि, स्तिबुकाकारो यो विन्दुर्न पुनरितस्ततो वातादिना विक्षिप्तः स्तिबुक बिन्दुस्तस्येव यत्संस्थानं तेन संस्थितानि, तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि सूचीकलाप संस्थानसंस्थितानि, | वायुकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि पताकासंस्थानसंस्थितानि, वनस्पतिकायिकानां सूक्ष्मा| णां बादराणां पर्याप्तानामपर्याप्तानां च प्रत्येकमौदारिकशरीराणि नानासंस्थान संस्थितानि, देशकालजातिभेदतः तेषां संस्थानानामनेकभेदभिन्नत्वात्, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं पर्याप्तानामपर्याप्तानामौदारिकशरीराणि हुंडसंस्थानसंस्थितानि तिर्यक्पञ्चेन्द्रियौदारिकशरीरं सामान्यतः षड्विधसंस्थानसंस्थितं, तदेवोपदर्शयति- 'समचउरंससंठाणसंठिए' इत्यादि, यावत्करणात् ' नग्गोहपरिमंडल संठाणसंठिए साइसं० वामणसं० खुजसंठाणसंठिए इंडसंठाणसं
Jain Education International
For Personal & Private Use Only
२१ शरीर
पदं
॥४११॥
www.jainelibrary.org