________________
प्रज्ञापनायाः मल
य० वृत्तौ
॥४०९॥
तथा अणु भूत्वा महद्भवति महच भूत्वा अणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्य
२१शरीरभूत्वा अदृश्यं भवति अदृश्यं भूत्वा दृश्यमित्यादि, तच द्विविधं-औपपातिकं लब्धिप्रत्ययं च, तत्रीपपातिकमुपपातजन्मनिर्मितं, तच देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां, तथा 'आहारए' इति आहारकं चतुर्दशपूर्व विदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारकं, 'कृद्धहुल'मिति वचनात् कर्मणि वुजू, यथा पादहारक इत्यत्र, उक्तं च-"कजंमि समुप्पण्णे सुयकेवलिणा विसिट्ठलद्धीए। जं एत्थ आहरिजइ भणितं आहारगं तं तु ॥१॥"[कार्ये समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदत्राहियते भणितमाहारकं तत् ॥१॥] कार्यं चेदम्-"पाणिदयरिद्धिदंसणसुहुमपयत्थावगहणहेउं वा। संसयवोच्छेयत्थं । गमणं जिणपायमूलंमि॥२॥" [प्राणिदयर्द्धिदर्शनसूक्ष्मपदार्थावगाहनहेतोश्च। संशयव्यवच्छेदार्थ गमनं जिनपादमूले ॥१॥] तच वैक्रियशरीरापेक्षया अत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुदलसमूहघटनात्मकं, तेज इति-तैजसं तेजसः-तेजःपुद्गलानां विकारस्तैजसं 'विकार' इत्यण, तत् ऊष्मलिङ्गं भुक्ताहारपरिणमनकारणं, तद्वशाच विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तं च-"सबस्स उम्हसिद्धं रसाइआहारपाकजणगं च ॥ तेयगलद्धिनिमित्तं च तेयगं होइ नायचं ॥१॥" [ सर्वस्योष्मसिद्धं रसाद्याहारपाकजनकं च । तेजोलब्धिनिमित्तं । च तैजसं भवति ज्ञातव्यम् ॥१॥] 'कम्मए' इति कर्मणो जातं कम्मंज, किमुक्तं भवति ?-कर्मपरमाणव एवा
जापुद्गलानांपेक्षया अत्यन्तवादर्शनसूक्ष्मपदाद्धिदसणसुहमा
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org