SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ भिन्नमुहूर्त्तावशेषकालः, शेषं सुगमं तदेवमन्तर्मुहूर्त्तकालं यथायोगं योगत्रयव्यापारभा केवली भूत्वा तदनन्तरमत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधायोपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्यासम्भवात् तथाहि —योगपरिणामो लेश्या, तदन्वयव्यतिरेकानुविधानात्, ततो यावद्योगस्तावदव| श्यंभाविनी लेश्येति न लेश्यातीतध्यानसम्भवः, अपिच - यावद्योगस्तावत्कर्मबन्धोऽपि 'जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणई' इति वचनात् केवलं स कर्म्मबन्धः केवलयोगनिमित्तत्वात् समयत्रयावस्थायी, तथाहि - प्रथमसमये कर्म बध्यते, द्वितीयसमये वेद्यते, तृतीये तु समये तत्कर्माकर्मीभवति, तत्र यद्यपि समयद्वयरूप - स्थितिकानि कर्माणि क्रियन्ते, पूर्वाणि २ कर्माणि प्रलयमुपगच्छन्ति, तथापि समये समये सन्तत्या कर्मादाने प्रवर्त्तमाने सति न मोक्षः स्याद्, अथ चावश्यं मोक्षं गन्तव्यं तस्मात् कुरुते स योगनिरोधमिति, उक्तं च- " स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं योगनिमित्तं स निरुरुत्सुः ॥ १ ॥ समये | समये कर्मादाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥ २ ॥ नाकर्मणो हि वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितेर्बन्धः ॥ ३ ॥" अत्र बन्धस्य सप्रयमात्र - स्थितिकता बन्धसमयमतिरिच्य वेदितव्या, भाष्यमप्येनं पूर्वोक्तं सकलमपि प्रमेयं पुष्णाति तथा च तद्वतो ग्रन्थः“विणिवित्तसमुग्धाओ तिष्णिवि जोगे जिणो पउंजिजा । सञ्चमसच्चामोसं च सो मणं तह वईजोगं ॥ १ ॥ ओरा Jain Education anal For Personal & Private Use Only Jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy