________________
wooooooooooo
निष्ठितार्थो भवति !, स च 'वर्तमानसामीप्ये वर्तमानवद्वेति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते तत आहबुध्यते-अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत आहेमुच्यतेऽशेषकर्माशेरिति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह-परिनिर्वाति-सामस्त्येन शीतीभवति, समस्तमेतदेकेन पर्यायेण स्पष्टयति-सर्वदुःखानामन्तं करोतीति, भगवानाह-गौतम ! नायमर्थः समर्थो-नायमर्थः सङ्गतो यः समुद्घातं गतः सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात् , सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोतीत्यत आह-से 'मित्यादि, सः| अधिकृतसमुद्घातगतः णमिति वाक्यालङ्कारे ततः समुद्घातात् प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः-प्रतिनिवर्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान् | भवधारणीयकर्मसु नामगोत्रवेदनीयेष्वचिन्त्यमाहात्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वप्यन्तर्मुहूत्तेभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा, मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वाक्पुद्गलान् गृहीत्वा वाग्योगं तमपि सत्यमसत्यामृषा वा, न शेषान् वाग्मनसोर्योगान्, क्षीणरागादित्वात्, आगमनादौ चौदारिकादिकाययोगं, तथाहि-भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने आगच्छेत् ,
seeeeeeeeeeeeeeee.
Join Education Intematonal
For Personal & Private Use Only
www.janelibrary.org