________________
भुज्यते कानुभावानजीर्णाः' सामस्त्येनात्मय केवलिनः सर्वबहुप्रदेश
प्रदेशतो विपाकतो वा वेदनाद् भवति, 'सवं च पएसतया भुजइ कम्ममणुभावतो मइय' [ सर्वच प्रदेशतया भुज्यते कर्मानुभावतो भक्तं] मित्यादि वचनात् , ते चत्वारः कर्माशा अपि अवेदिता अतोऽक्षीणाः, एतदेव पर्यायेण व्याचष्टे-'अनिर्जीर्णाः' सामस्त्येनात्मप्रदेशेभ्योऽपरिशाटिताः भवन्ति' तिष्ठन्ति, तानेव नामग्राहमभिधित्सु
राह-'तंजहे'त्यादि सुगम, तत्र यदा 'से' तस्य केवलिनः सर्वबहुप्रदेशं वेदनीयमुपलक्षणमेतत् नामगोत्रे च तथा ३ सर्वस्वोकप्रदेशमायुःकर्म तदा स 'बंधणेहिं ठिइहिन्ति बध्यते-भवचारकात् विनिर्गच्छन् प्रतिबद्यते यैस्ते बन्ध
नाः, 'करणाधारे' इति करणेऽनट्प्रत्ययः, अथवा बध्यन्ते-आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशात् ये ते बन्धनाः 'कृद्धहुल'मिति वचनात् कर्मणि अनद, उभयत्रापि कर्मपरमाणयो वाच्याः, स्थितयो-वेदनाकालाः, तथा चोक्कं भाष्यकृता-"विसमं स करेइ समं समोहओ बंधणेहि ठिइए य । कम्मदवाई बंधणातिं कालो ठिई तेसिं ॥१॥" [विषमं स करोति समं समवहतो बन्धनः स्थित्या च । कर्मद्रव्याणि बन्धनानि कालः स्थितिस्तेषाम् ॥१॥] ततश्च तैर्बन्धनैः स्थितिभिश्च विषमं सत् वेदनीयादिकं समुद्घातविधिना सममायुषा सह करोति, स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमस्य सतो वेदनीयादिकस्य कर्मणः 'समीकरणयाए' इति अत्र ताप्रत्ययः खार्थिकः, ततोऽयमर्थः-समकरणाय, 'समोहन्नई' इति समवहन्ति–समुद्घाताय प्रयतते, एवं खलु समुद्घातं गच्छति, उक्तं च-"आयुषि समाप्यमाने शेषाणां कर्मणां च यदि समाप्तिः। न स्यात् स्थितिवैष-18
Receceब्रिटिश
प्र.१०१NUA
For Personal & Private Use Only
I
a inelibrary.org