________________
aese
प्रज्ञापना- या: मलय० वृत्ती.
॥६००॥
४ मुद्धातनि
शब्दो हि प्रायेणाशुङ् व्याप्तावित्यस्य धातोर्निष्पाद्यते, अश्वश्चाक्षाणि च अश्वाक्षाणि, महान्ति-स्फीतिमन्ति अश्वा-३६ समुक्षाणि यस्यासौ महाश्चाक्षः, स्फीतमनाः स्फूर्त्तिमच्चक्षुरादीन्द्रियश्चेत्यर्थः, एकं महान्तं-अतिगुरुकमन्यथा स्तोकतया | द्घातपदं तद्गतर्गन्धपुद्गलैः सकलस्य जम्बूद्वीपस्य व्याप्तुमशक्यत्वात् , 'सविलेवण'मिति सह विशिष्टं-अतिसूक्ष्मरंध्राणामपि ४ केवलिसस्थगनात् लेपनं लेपो-जत्वादिकृतं पिधानमुपरि वर्तते येन स तथा तं, विशिष्टलेपप्रदानाभावे हि बहवः सूक्ष्मरन्धैर्गन्धपुद्गला निर्गच्छन्ति तत उद्घाटनवेलायां तेषां स्तोकीभावेन सकलजम्बूद्वीपापूरणं नोपपद्यते, 'गंधसमुग्गय'ति
रापुद्गलगन्धद्रव्यैरतिविशिष्टैः परिपूर्ण भृतः समुद्को गन्धसमुद्कस्तं 'अबदालेइ'त्ति अवदालयति उत्पाटयतीत्यर्थः, 'इणामे
सूक्ष्मता वेति एवमेवेत्यर्थः 'केवलकप्प'ति केवलं केवलज्ञानं तत्कल्पं परिपूर्णतया तत्सदृशं परिपूर्णमित्यर्थः, जम्बूद्वीपं
सू.३४४ द्वीपं त्रिभिः अप्सरोनिपातो नाम-चप्पुटिका ततस्तिसृभिः चप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततोऽयमर्थः-यावता कालेन तिस्रश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्ये इति, त्रिसप्तकृत्वः-एकविंशतिवारान् अतिपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् -समागच्छेत् 'से नूर्ण'इत्यादि, सेशब्दो मगधदेशप्रसिद्ध्या अथशब्दार्थे, अथशब्दस्य चार्थो वाक्योपन्यासादयः, उक्तं च-'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलाधिकारवाक्योपन्या
॥६००॥ सेषु' तत्रायं वाक्योपन्यासे, तद्भावना च एवं-उक्तस्तावत् विवक्षितार्थप्रतिपत्तिहेतोदृष्टान्तस्य पीठिकाबन्धः, सम्प्रति विवक्षितार्थप्रतिपत्तिहेतुदृष्टान्तवाक्यमुपन्यस्यते, नूनं-निश्चितं, गौतम ! स केवलकल्पो जम्बूद्वीपस्तैग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org