________________
Pos209999990SAPos
अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सखेजा वा असखेजा वा अणंता वा' एवं यावन्मनुष्यसूत्रं, तत्राप्कायादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति सकृत् जघन्यस्थितिकं द्वीन्द्रियभवं प्रामुकामस्य, सङ्ख्येयान् वारान् प्राप्तुकामस्य सङ्ख्यया असङ्ख्येयानसङ्येया अनन्तान् अनन्ताः, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तियकपञ्चेन्द्रियमनुष्यसूत्रविषया त्वेवं भावना-सकृत्पञ्चेन्द्रियभवं प्राप्नुकामस्य खभावत एवाल्पकषायस्य जघन्यत एको द्वौ त्रयो वा शेषस्य सङ्ख्येयान् वारान् तिर्यक्रपञ्चेन्द्रियभवं प्राप्तुकामस्य सङ्ख्येया असङ्ख्ययान् वारान् असङ्ख्यया अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया भावनैवं-यो नरकभवादुत्तोऽल्पकषायः सन् मनुष्यभवं प्राप्य कषायसमुद्घातमप्रास एव सिद्धिपुरं गन्ता तस्य न सन्ति, शेषस्य सन्ति, तस्यापि एकं द्वौ त्रीन् वारान् कषायसमुद्घातान् प्राप्य सेत्स्यत एको द्वौ त्रयो वा सङ्ख्येयान् भवान् यदिवा एकस्मिन्नपि भवे सङ्ख्येयान् कषाय| समुद्घातान् गन्तुः सङ्ख्यया असङ्ख्येयान् भवान् प्राप्तुकामस्थासङ्ख्येयाः अनन्तान् अनन्ताः, 'वाणमंतरत्ते जहा असुर| कुमारत्ते' प्रागुक्तं, किमुक्तं भवति? -पुरस्कृतचिन्तायां एवं वक्तव्यं-'जस्सत्थि सिय सखेजा सिय असोज्जा सिय अणंता वा' इति न त्वेकोतरिका वक्तव्याः, व्यन्तराणामप्यसुरकुमाराणामिव जघ यस्थितावपि सङ्ख्येयानां कषायसमुद्घातानां लभ्यमानत्वात् , असङ्ख्येयानन्तभावनाप्यसुरकुमारवत्, 'जोइसियत्' इत्यादि, ज्योतिष्क
टटटटcelesetcesesentsECE
dain Education Internal
For Personal & Private Use Only
"www.jainelibrary.org