________________
रकाः, ते हि ग्रैवेयकानुत्तरोपपातिनस्ते च सर्वसङ्ख्यया क्षेत्रपल्योपमासङ्ख्येयभागवर्त्तिनभः प्रदेशराशिप्रमाणा इति, तेभ्योऽपि मनः परिचारका देवाः सङ्ख्येयगुणाः, तेषामानतादिकल्पचतुष्टयवर्त्तित्वात् तद्वर्त्तिनां च पूर्वदेवापेक्षया सङ्ख्येयगुणक्षेत्रपल्योपमा सङ्ख्येय भागगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः शब्दपरिचारका असङ्ख्येयगुणाः, ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च घनीकृतलोकस्य एकप्रादेशिक्याः श्रेणेरसङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, तेभ्योऽपि रूपपरिचारका देवा असङ्ख्येयगुणाः, ते हि ब्रह्मलोकलान्तक कल्पनिवासिनः, ते च पूर्वदेवानधिकृत्या सङ्ख्येयगुणश्रेण्यसङ्ख्येयभागगतनभः प्रदेशराशिप्रमाणाः, तेभ्योऽपि स्पर्शपरिचारका देवा असङ्ख्येयगुणाः, तेषां सनत्कुमारमाहेन्द्र कल्पवर्त्तित्वात् तद्वर्त्तिनां च ब्रह्मलोकलान्तकदेवानपेक्ष्यासङ्ख्येयगुणश्रेण्यसङ्ख्येय भागवकाशप्रदेशपरिमाणतयाऽधीतत्वात्, तेभ्यः कायपरिचारका देवा असङ्ख्येयगुणाः, भवनपत्यादीनामीशानान्तानां सर्वेषां कायपरिचारकत्वात् तेषां सर्वसङ्ख्यया प्रतरासङ्ख्येयभागवर्त्तिनभः प्रदेशराशिप्रमाणत्वात् इति ॥ इति श्रीमलयगिरिविर० प्रज्ञा० चतुस्त्रिंशत्तमं पदं समाप्तम् ॥
"
Jain Education International
-****
For Personal & Private Use Only
www.jainelibrary.org