SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ षयः, केवली हि यद्यपि मनोद्रव्यसम्बन्धभाक् तथापि न तैरसी भूतभवद्भाविभावस्वभाव पर्यालोचनं करोति, किन्तु क्षीणसकलज्ञानदर्शनावरणत्वात् पर्यालोचनमन्तरेणैव केवलज्ञानेन केवलदर्शनेन च साक्षात्समस्तं जानाति पश्यति च, ततो न संज्ञी नाप्यसंज्ञी, सकलकालकलाकलापव्यवच्छिन्नस मस्तद्रव्यपर्यायप्रपञ्च साक्षात्करणप्रवणज्ञानसमन्वितत्वात्, सिद्धोऽपि न संज्ञी, द्रव्यमनसोऽप्यभावात् नाप्यसंज्ञी सर्वज्ञत्वात्, तदेवं सामान्यतो जीवपदे संज्ञिनोऽसंज्ञिनो नोसंज्ञिनोअसंज्ञिनश्च लभ्यन्ते इति, भगवान् तथैव प्रतिसमाधानमाह - 'गौतमे' त्यादि, जीवाः संज्ञिनोऽपि नैरयिकादीनां संज्ञिनां भाषाद, असंज्ञिनोऽपि पृथिव्यादीनामसंज्ञिनां भावात्, नोसंज्ञिनोअसंज्ञिनोऽपि सिद्ध केवलिनां नोसंज्ञिनोअसंज्ञिनामपि भावात् । एतानेव चतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइया ण' मित्यादि, इह ये नैरयिकाः संज्ञिभ्य उत्पद्यन्ते ते संज्ञिनो व्यवह्रियन्ते इतरे त्वसंज्ञिनः, न च नैरयिकाणां केवलिभावो घटते, चारित्रप्रतिपत्तेरभावात् तत उक्तं नैरयिकाः संज्ञिनोऽप्यसंज्ञिनोऽपि, नो नोसंज्ञिनोनोअसंज्ञिनः, एवमसुरकुमारादयोऽपि स्तनितकुमार पर्यवसाना भवनपतयो वक्तव्याः तेषामप्यसंज्ञिनोऽप्युत्पादात् केवलित्वाभावाच, 'मणूसा जहा जीव'त्ति मनुष्याः प्राक् यथा जीवा उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असंज्ञिनोऽपि नोसंज्ञिनोअसंज्ञिनोऽपि वक्तव्या इति भावः तत्र ये गर्भव्युत्क्रान्तास्ते संज्ञिनः सम्मूच्छिमा असंज्ञिनः केवलिनो नोसंज्ञिनोअसंज्ञिनः, 'पञ्चेन्दियतिरिक्खजोणियवाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियतिर्यग्योनिका व्यन्तराश्च यथा नैरयिका उक्तास्तथा वक्तव्याः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy