________________
प्रज्ञापनायाः मलय० वृत्ती.
॥४२॥
जेसिं सणंकुमारे तहेव माहिंदै । रयणीछकं तेसिं भागचउकाहियं देहो ॥१॥ तत्तो अयरे अयरे भागो एक्केकओ२१शरीरपडइ जाव । सागरसत्तठिईणं रयणीछक्कं तणुपमाणं ॥२॥" इह जघन्या भवधारणीया सर्वत्राप्यनुलासङ्ख्ययभागप्रमाणा, सा च प्रतीतेति तामवधीर्योत्कृष्टां प्रतिपादयति-'बंभलोगलंतगेसु पंच रयणीओ' इति, इह यद्यपि ब्रह्मलोकस्योपरि लान्तको न समश्रेण्या तथापीह शरीरप्रमाणचिन्तायामिदं द्विकं विवक्ष्यते, द्विकपर्यन्त एव हस्त|स्य त्रुटिततया लभ्यमानत्वात् , एवमुत्तरत्रापि द्विकचतुष्कादिपरिग्रहे कारणं वाच्यं, तत्र ब्रह्मलोकलान्तकयोरुत्कर्षतया भवधारणीया पञ्च रत्नयः, एतच लान्तके चतुर्दशसागरोपमस्थितिकान् देवानधिकृत्य प्रतिपादितमवसेयं, शेषसागरोपमस्थितिष्वेवं-येषां ब्रह्मलोके सप्त सागरोपमाणि स्थितिस्तेषां षडू रत्नयः परिपूर्णा भवधारणीया, येषामष्टी सागरोपमाणि तेषां पञ्च हस्ताः षड़ हस्तस्यैकादशभागाः, येषां नव सागरोपमाणि तेषां पञ्च हस्ताः पञ्च हस्तस्यैकादशभागाः, येषां दश सागरोपमाणि तेषां पञ्च हस्ताश्चत्वारश्चैकादशभागाः हस्तस्य, लान्तकेऽपि येषां दश सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया उत्कर्षतो, येषामेकादश सागरोपमाणि लान्तके स्थितिस्तेषां पञ्च हस्तास्त्रयो हस्तस्यैकादशभागाः, येषां द्वादश सागरोपमाणि तेषां पञ्च हस्ता द्वौ च हस्तैकादशभागी, येषां त्रयो-15 दश सागरोपमाणि तेषां पञ्च हस्ता एको हस्तस्यैकादशभागो, येषां चतुर्दश सागरोपमाणि स्थितिस्तेषां परिपूर्णा पञ्चहस्ता भवधारणीया, 'महासुक्कसहस्सारेसु चत्तारि रयणीओ' महाशुक्रसहस्रारयोश्चतस्रो रत्नय उत्कर्षतो भवधार
॥४२॥
For Personal & Private Use Only
Jan Education International
wwww.jainelibrary.org