SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ २१शरीर प्रज्ञापना- या: मलय० वृत्ती. ॥४२॥ भवति, उक्तं च-“सो चेव य पंचमीए पढमे पयरंमि होइ उस्सेहो । पनरस धणूणि दो हत्थ सह पयरेसु वुड्डी य ॥१॥ तह पंचमए पयरे उस्सेहो धणुसयं तु पणवीसं ॥” अस्याः सार्द्धगाथाया अक्षरगमनिका प्राग्वत् कर्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणं अर्द्धतृतीयानि धनुःशतानि, एतानि च पञ्चमे प्रस्तटे वेदितव्यानि, शेषेषु प्रस्तटेषु खखभवधारणीयापेक्षया द्विगुणमिति । षष्ठयां तमःप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया अर्द्धतृतीयानि धनुःशतानि, तानि च तृतीये प्रस्तटे प्रत्येतव्यानि, प्रथमे तु प्रस्तटे पञ्चविंशं धनुःशतं, द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतं, तृतीये तु सूत्रोक्तमेव परिमाणं, अत्राप्ययं तात्पर्यार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सार्द्धानि द्वाषष्टिधनूंषि प्रक्षेप्तव्यानि, तथा च सति तृतीये प्रस्तटे यथोक्तं परिमाणं भवति, उक्तं च-“सो चेव य छट्ठीए पढमे पयरंमि होइ उस्सेहो । बावटि धणुय सड्ढा पयरे पयरे य वुड्डीओ ॥१॥छट्टीएँ तइयपयरे दोसय पण्णासया होंति ॥” अस्याप्युत्तरार्द्धपूर्विकाया गाथाया अक्षरगमनिका प्राग्वत् कर्तव्या. उत्तरवैक्रियोत्कर्षपरिमाणं पञ्च धनुःशतानि, तानि च तृतीयप्रस्तटे वेदितव्यानि, आद्ययोस्तु द्वयोः प्रस्तटयोः खस्खभवधारणीयापेक्षया द्विगुणं द्विगुणमवबोद्धव्यं ६।अथ सप्तम्यां तु पृथिव्यां भवधारणीया उत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया धनुःसहस्रं, सर्वत्र |भवधारणीया जघन्यतोऽङ्गलासङ्ख्येयभागप्रमाणा उत्तरवैक्रिया सङ्ग्येयभागप्रमाणेति । तिर्यकपञ्चेन्द्रियस्य वैक्रियशरीरावगाहना उत्कर्षतो योजनशतपृथक्त्वं, तत ऊर्ध्वं करणशक्तेरभावात् , मनुष्याणां सातिरेकं योजनशतसहस्रं, TOP02999999000 ॥४२०॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy