________________
पदे उद्देशः
प्रज्ञापना- या: मलय० वृत्ती. ॥३७॥
Dr.
2099292020902
प्राग्वदेवं निरवशेषा कर्त्तव्या, प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽग्रेतनसूत्रसम्बन्धार्थः, तदेव सूत्रमाह-से ११७ लेश्यानूणं भंते !' इत्यादि, इह तिर्यमनुष्यविषयं सूत्रमनन्तरमुक्तं, इदं तु देवनैरयिकविषयमवसेयं, देवनैरयिका हि पूर्वभवगतचरमान्तर्मुहूर्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्याद्रयाणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति-से नृणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं-निश्चितं भदन्त ! कृष्णलेश्या-कृष्णलेश्याद्रव्याणि नीललेश्यानीललेश्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमानं गृह्यते नतु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूपतया-तदेव-नीललेश्याद्रव्यगतं रूपं-खभावो यस्य कृष्णलेश्याखरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तया, एतदेव व्याचष्टे-न तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह-हन्तेत्यादि, हन्त गौतम ! कृष्णलेश्येत्यादि, तदेव ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? 'भावपरावत्तीए पुण सुरनेरइयाणंपि छलेसा' इति [भावपरावृत्तेः पुनः सुरनरयिकाणामपि षड् लेश्याः] लेश्यान्तरद्रव्य- ॥३७॥ सम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तेरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह-से केणटेभंते !' इत्यादि, तत्र प्रश्नसूत्रं सुगम निर्वचनसूत्रं-आकारः-तच्छायामानं आकारस्य भावः-सत्ता आकारभावःस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org