SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय. वृत्ती . | काकाशप्रदेशप्रमाण असङ्ख्येयानामुत्सपिणाशरूपाणि शुभा ॥३६९॥ 'केवइया णं भंते ! कण्हलेसा ठाणा पन्नत्ता' कियन्ति भदन्त ! कृष्णलेश्यास्थानानि-प्रकर्षापकर्षकृताःस्वरूपभेदाः १७ लेश्याप्रज्ञप्तानि १, सूत्रे च पुंस्त्वं प्राकृतत्वात् , इह यदा भावरूपाः कृष्णादयो लेश्याश्चिन्त्यन्ते तदा एकैकस्या लेश्याया। पदे उद्देशः प्रकर्षापकर्षकृतखरूपभेदरूपाणि स्थानानि कालतोऽसङ्ख्येयोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, उक्तं च-"असंखेजाणुस्सप्पिणीण अवसप्पिणीण जे समया। संखाईया लोगा लेस्साणं होंति ठाणाई॥१॥"[असमयेयानामुत्सर्पिणीनामवसर्पिणीनां च ये समयाः (तत्प्रमाणानि) सङ्ख्यातीता लोका लेश्यानां भवन्ति स्थानानि ॥१॥] नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां स्थानानां यानि कारणभूतानि कृष्णादिद्रव्यवृन्दानि तान्यपि स्थानान्युच्यन्ते तान्येव चेह ग्राह्याणि, कृष्णादिद्रव्याणामेवेहोद्देशके चिन्त्यमानत्वात् , तानि च प्रत्येकमसङ्ख्येयानि, तथाविधैकपरिणामनिवन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात् , तानि च प्रत्येकं द्विविधानि, तद्यथा-जघन्यान्युत्कृष्टानि च, जघन्यलेश्या-| स्थानपरिणामकारणानि जघन्यानि उत्कृष्टलेश्यास्थानपरिणामकारणान्युत्कृष्टानि, यानि तु मध्यमानि तानि जघन्यप्रत्यासन्नानि जघन्येष्वन्तर्भूतानि उत्कृष्टप्रत्यासन्नानि तूत्कृष्टेषु, एकैकानि च स्वस्थाने परिणामगुणभेदतोऽसङ्ख्ये-18 ॥३६ ९॥ यानि, अत्र दृष्टान्तो-यथा स्फटिकमणेरलक्तकवशेन रक्तता भवति, सा च जघन्यरक्ततागुणालक्तकवशेन जघन्यरक्तता एकगुणा(धिका)लक्तकवशेनैकगुणाधिकजघन्या, एवमेकैकगुणवृद्धा जघन्यायामेव रक्ततायामसङ्ख्येयानि स्थानानि 99292099DBOOba dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy