________________
॥ अहम् ॥ श्रीमदार्यश्यामाचार्यसंकलितम् श्रीमन्मलयगिर्याचार्यविरचितवृत्तिपरिकरितं
श्रीप्रज्ञापनासूत्रम्
जयति नमदमरमुकुटप्रतिबिम्बच्छमविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ १॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्ननं सत्त्वा जन्मजराव्याधिपरिहीणाः ॥२॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥३॥ जडमतिरपि गुरुचरणोपास्तिसमुद्धतविपुलमतिविभवः। समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥४॥ अथ प्रज्ञापनेति कः शब्दार्थः १, उच्यते. प्रकर्षण-निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितखरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना, इयं च समवायाख्यस्य चतुथों
प्र.१ Jain Educati A
lbona
For Personal & Private Use Only
IMMainelibrary.org