SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनया मल य० वृत्तौ . ॥३३९॥ रीरा लोमाहारतो बहुतरान् पुगलानाहारयन्त्युच्छ्वसन्ति च अभीक्ष्णमाहारयन्त्यभीक्ष्णं चोच्चसन्ति, महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वासत्वं अल्पशरीरत्वादेव, कादाचित्कत्वं चाहारोच्छ्वासयोः पर्याप्तेतरावस्थापेक्षमिति । वेदनासूत्रमाह - 'पुढविकाइया णं भंते! सधे समवेयणा' इत्यादि, असन्नीति — मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयंति असज्जीभूता असञ्ज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति – 'अणिययं ति अनियताम् - अनिर्धारितां वेदयन्ते, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमित्यवगच्छन्ति, मिथ्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूच्छितादिवदितिभावः, क्रियासूत्रे 'माइमिच्छद्दिट्ठित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह शिवशम्र्माचार्य :- “ उम्मग्गदेसओ मग्गनासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधई जीवो ॥ १ ॥” [ उन्मा| देशको मार्गनाशको गूढहृदयो मायावी । शठता (शठोs) शीलश्च सशल्यस्तिर्यगायुर्वघ्नाति जीवः ॥ १ ॥ ] ततस्ते मायिन उच्यन्ते, अथवा माया इह समस्तानन्तानुबन्धिकषायोपलक्षणं ततो मायिन इति किमुक्तं भवति ? - अनन्तानुबन्धिकषायोदयवन्तः अत एव मिथ्यादृष्टयः, 'ताणं णियइयाओ' इति तेषां - पृथिवीकायिकानां नैयतिक्यो-नियताः पञ्चैव न तु त्रिप्रभृतय इत्यर्थः ' से एएणद्वेण 'मित्यादि, निगमनं 'जाव चउरिंदिया' इति इह महाशरीरत्वा| ल्पशरीरत्वे स्वखावगाहनानुसारेणावसेये, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति, 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्रसन्तीति यदुच्यते तत्सङ्ख्यात Jain Education International For Personal & Private Use Only | १७ लेश्यापदे उद्देशः २ ॥३३९॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy