________________
ष्वपि भावनीयं, 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इत्यादि, पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा वक्तव्याः, नवरं वैक्रियमिश्रवैक्रियशरीरकायप्रयोगिस्थाने औदारिक औदारिक मिश्रशरीरकायप्रयोगिणो वक्तव्याः, किमुक्तं भवति ? - सत्यमनः प्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृषावाग्योगिनोऽपि तत औदारिकशरीरकाय प्रयोगि णोऽपि औदारिक मिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यं, एतानि दश पदानि बहुवचनेन सदाऽवस्थितानि, यद्यपि च तिर्यक्पञ्चेन्द्रियाणामप्युपपातविरहकाल आन्तर्मुहूर्त्तकस्तथाऽप्युपपात विरह कालान्तर्मुहूर्त्त लघु औदारिक मिश्रान्त| मुहूर्त्तमतिबृहदित्यत्राप्यौदारिक मिश्रशरीरकाय प्रयोगिणः सदा लभ्यन्ते यस्तु द्वादशमौहूर्त्तिक उपपातविरहकालः स गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिरश्चां न सामान्यपञ्चेन्द्रियतिरश्चामिति, कार्मणशरीरका यप्रयोगी तु तेष्वपि कदाचिदेकोऽपि न लभ्यते, आन्तर्मुहूर्त्तकोपपातविरहकालभावात्, ततो यदा एकोऽपि कार्मणशरीरी न लभ्यते तदा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः यदा वहवस्तदा तृतीयः, मनुष्येषु मनश्चतुष्टयवाक्चतुष्टयौदारिकवैक्रियद्विकरूपाण्येकादश पदानि सदैव बहुवचनेन लभ्यन्ते, वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते इति चेत् ? उच्यते, विद्याधराद्यपेक्षया, तथाहि - विद्याधरा अन्येऽपि केचिमिध्यादृष्ट्यादयो वैक्रियलब्धिसम्पन्नाः अन्यान्यभावेन सदैव विकुर्वणायां लभ्यन्ते, आह च मूलटीकाकारः – “मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव विद्याध - रादीनां विकुर्वणाभावा" दिति, औदारिकमिश्रशरीरकाय प्रयोगी कार्मणशरीरकायप्रयोगी च कदाचित्सर्वथा न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org