________________
तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफा
सपरिणयावि लुक्खफासपरिणतावि २०, १०० । सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपण्णवणा । (सू०४) । ये स्कन्धादयो 'वर्णतो' वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति ते 'गन्धतो' गन्धमाश्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि, किमुक्तं भवति ?-गन्धमधिकृत्य ते भाज्याः, केचित् सुरभिगन्धपरिणता भवन्ति केचिद्दरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति,एवं च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र द्वौ गन्धौ पञ्च रसा अष्टौ स्पर्शाः पञ्च संस्थानानीति, एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता एतावतो भङ्गालभन्ते २०,एवं नीलवर्णपरिणता अपि २०,लोहितवर्णपरिणता अपि २०,हारिद्रवर्णपरिणता अपि २०, शुक्लवर्णपरिणता अपि २०, एवं पञ्चभिर्वणैर्लब्धं शतम् १००। गन्धमधिकृत्याह-'ये गन्धतो' इत्यादि, ये 'गन्धतो' गन्धमधिकृत्य सुरभिगन्धपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि ५, एवं रसतः ५ स्पर्शतः ८ संस्थानतः ५, एते च मीलितास्त्रयोविंशतिः २३ इति सुरभिगन्धपरिणतास्त्रयोविंशतिभङ्गाल्लभन्ते, एवं दुरभिगन्धपरिणता अपि २३, ततोगन्धपदेन लब्धा भङ्गानां षट्रचत्वारिंशत् ४६।रसमधिकृत्याह-ये 'रसतो' रसमधिकृत्य तिक्तरसपरिणतास्ते वर्णतः
Jain Educati
o
nal
For Personal & Private Use Only
O
nelibrary.org