SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया-द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो। द्रव्यार्थता तया द्रव्यरूपतया इत्यर्थः तुल्याः--समानाः, प्रत्येकमेकसङ्ख्याकत्वात् , अत एव सर्वस्तोकाः, तेभ्यो जीवास्तिकायो द्रव्यार्थतया अनन्तगुणः, जीवानां प्रत्येकं द्रव्यत्वात् तेषां च जीवास्तिकाये अनन्तत्वात् , तस्मादपि पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते. इह परमाणद्विप्रदेशकादीनि पृथक पृथक् द्रव्याणि, | तानि च सामान्यतस्विधा, तद्यथा-प्रयोगपरिणतानि मिश्रपरिणतानि विश्रसापरिणतानि च, तत्र प्रयोगपरिण-15 तान्यपि तावजीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तः प्रत्येकं ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धैरावेष्टित(परिवेष्टित) त्वात् , किं पुनः शेषाणि ?, ततःप्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्यो विश्र| सापरिणतान्यनन्तगुणानि, तथा चोक्तं प्रज्ञप्ती-“सवत्थोवा पुग्गला पयोगपरिणया मीसपरिणया अनंतगुणा वीससापरिणया अनंतगुणा" इति, ततो भवति जीवास्तिकायात् पुदलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इहैकस्यैव परमाणोरनागते काले तत्र द्विप्रदेशिकत्रिप्रदेशकयावत्दशप्रदेशिकसहयातप्रदेशिकासङ्ख्यातप्रदेशिकानन्तप्रदेशिकस्कन्धान्तःपरिणामितया अनन्ता भाविनः संयोगा पृथक्पृथक्कालाः केवलवेदसोपलब्धाः, यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्विप्रदेशादिस्कन्धानां चानन्ताः संयोगाः पुरस्कृताः पृथक्पृथक्काला उपलब्धाः, सर्वेषामपि मनुष्य लोक क्षेत्रान्तर्वर्णितया परिणाम Jain Education For Personal & Private Use Only Maintainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy