________________
गखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलसङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, खभावत एव तेषां प्रभूततमप्रतराङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् ,18 तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्तमानत्वात् , तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गतं) तृतीयमल्पबहुत्वं, सम्प्रत्येतेषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-सर्वस्तोकाः सेन्द्रिया अपर्यासकाः, इह सेन्द्रियेषु मध्ये एके
न्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सङ्ख्येय-2 1& गुणा इति सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सङ्ख्येयगुणाः, एवमेकेन्द्रिया अपि अपर्याप्ताः सर्वस्तोकाः,
पर्याप्ताः सङ्ख्येयगुणा भावनीयाः। तथा सर्वस्तोका द्वीन्द्रियाः पर्याप्तकाः, यावन्ति प्रतरेऽङ्गुलस्य सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्योऽपर्याप्ताः असङ्ख्येयगुणाः, प्रतरगतामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि । गतं पडल्पबहुत्वात्मकं चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-'एएसिणं भंते' इत्यादि । इदं प्रागुक्तद्वितीयतृतीयाल्पबहुत्वभावनानुसारेण खयं भावनीयं, तत्त्वतो भावितत्वात् । गतमिन्द्रियद्वारम् , इदानीं कायद्वारमधिकृत्याह
Jain Education International
For Personal & Private Use Only
www.janelibrary.org