________________
सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजवायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृश-131
कटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालमांसलवक्षःस्थलाः पुरपरिKघाऽनुकारिदीर्घवाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः
शारदशशाङ्कसौम्यवदनाः छत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु कलश यूपस्तूंप वापी ध्वज पताकी सौवस्तिक यवं मत्स्यै मकर कूर्म रथैवर स्थलांशुकाष्टीपाडश सुप्रतिष्ठक मयूर श्रीदीमाभिषेक तोरण मेदिनी जलधि वरभवन दर्शपर्वतगवृषभसिंहच्छत्रचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपि सुजातसर्वाङ्ग-1 ६ सुन्दर्यः समस्तमहेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपे-11
तजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशा. लजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयःप्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपार्थाः कनककलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिलेखालङ्कृतपाणिपादतलाः वदनविभागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाधरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभ्रलतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रायाः खभावत उदारशृङ्गारचारवेषाः
Jain Education
SL
For Personal & Private Use Only
Rhelibrary.org